SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सौघेषु तुङ्गशिखराङ्गणसङ्गतेषु यत्रान्तरे प्रसृमरैरुडुदीप्रदीपैः । दीपोत्सवः स्फुरति नित्यमधित्यकायां ॥ श्रीमा० ॥ ९ ॥ नागेन्द्रचन्द्रप्रमुखैः प्रथितप्रतिष्ठः श्रीनाभिसम्भवजिनाधिपतिर्यदीयम् । सौवर्ण मौलिरिव मौलिमलङ्करोति ॥ श्रीमा० ॥ १० ॥ प्राग्वाटवंशमुकुटं विमलाह्वमन्त्री नाभेयचैत्यमुरुपैत्तलमूलबिम्बम् । आधत्त यत्र वसुदिग्गजदिग् १०८८ मितेऽब्दे ॥ श्रीमा० ॥ ११॥ अम्बां प्रसाद्य विमलः किल गोमुखस्य संवीक्ष्य मूर्तिमुपचम्पकमात्तभूमिः । तीर्थं न्यवीविशत यत्र... तेऽपतृष्टः ॥ श्रीमा० ॥ १२ ॥ ( ? ) अग्रे युगादि जिनसद्मनि शिल्पिनैक रात्रेण यत्र घटितोऽश्ममयस्तुरङ्गः । रङ्गं तरङ्गयति सन्ततमन्तरङ्गं ॥ श्रीमा० ॥ १३ ॥ स्नात्रोत्सवं प्रथमतीर्थकरस्य जन्मकल्याणके बहुदिगागतभव्यलोकाः । तन्वन्ति यत्र दिविजा इव मेरुशैले ॥ श्रीमा० ॥ १४ ॥ श्रीनेमिमन्दिरमिदं वसुदन्तिभानु वर्षे कषोपलमयप्रतिमा मिरामम् । श्रीवस्तुपालसचिवस्तनुते स्म यत्र ॥ श्रीमा० ॥ १५ ॥ चैत्येऽत्र लूणिगवसत्यमिधान के त्रिपञ्चाशता समधिका द्रविणस्य लक्षैः । · कोटीर्विवेच सचिवस्त्रिगुणाश्चतस्रः ॥ श्रीमा० ॥ १६ ॥ यत्रोत्तरेण यदुपुङ्गवचैत्य मम्बा प्रद्युम्नशाम्बरथनेम्यवतारतीर्थान् । पश्यन् जनः स्मरति रैवतपर्वतस्य ॥ श्रीमा० ॥ १७ ॥ यस्यानुचैत्यमवलोक्य जिनौकसां द्वि पञ्चाशतं गुरुतरप्रतिमान्वितानाम् । नन्दीश्वरादतिशयं प्रवदन्ति सन्तः ॥ श्रीमा० ॥ १८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat · www.umaragyanbhandar.com
SR No.034722
Book TitleAbu Jain Mandiro ke Nirmata
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherAtmanand Jain Sabha
Publication Year1922
Total Pages134
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy