________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ४७ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
गृहीत्वा पुनः स्वस्थीभूय गङ्गाम् उत्तीर्य तटे आगतः । तदा पाण्डवान् सहासान् नौसहितान् दृष्ट्वा श्रीकृष्णदेवो भृशं चुकोप । भो पाण्डवाः ! भवद्भिनौंः कथं न मुक्ता ? पाण्डवैरुक्तम्- स्वामिन्! अस्माभिर्भवद्बलदर्शनार्थं न मुक्ता । श्रुत्वा कृष्णो रुष्टः कथयामास भोः ! यदा पद्मनाभाग्रे यूयं पञ्चाऽपि नष्टाः, मया एकेनैव जितः, जित्वा द्रौपदी भवतां समर्पिता तदा मद्बलं न दृष्टम्, यदधुना गङ्गातरणे मबलं विलोकयितुं यूयं स्थिताः । यान्तु पापिष्ठा मम लोचनाद् दूरे, मम देशे मा तिष्ठन्तु भवन्त इत्युक्त्वा गदया तेषां पञ्चानां रथान चूर्णीचकार । स्वयं द्वारिकायाम् आयातः । तदा कुन्त्या श्रुतं श्रीकृष्णदेवेन रुष्टेन पाण्डवा देशाद् निष्काषिताः । कुन्ती कृष्णसमीपे आगत्य विज्ञप्तिं कृत्वा कृष्णाज्ञया पाण्डवान् आहूय पादयोः पातिताः । तदा कृष्णाज्ञया तत्रैव 'रथमर्दनम् ' पुरं नवीनं पाण्डवाः वासयामासुः । केचित् 'पाण्डुमथुरा' इति वदन्ति स्म । कृष्णसेवां कुर्वन्ति । कृष्णवासुदेवो धातकिखण्डे गतः, कपिलवासुदेवसार्धं शङ्खशब्दैः कृत्वा वार्तां चकार । इदमपि पञ्चमम् आश्चर्यकं जातम् ॥ अथ षष्ठं कथ्यते - कौशाम्बीनगयी श्रीमहावीरः समवसृतः, तत्र सूर्याचन्द्रमसौ खकीयमूलविमाने स्थित्वा समागतौ । एतद् अपि आश्चर्यकं षष्ठम् ॥ अथ सप्तमं कथ्यते - कौशाम्ब्यां नगर्यां वीरो नामा कोलिको वसति, वनमाला तस्य प्रिया । अन्यदा तां वनमालाम् अतीव रूपवतीं दृष्ट्वा नगरराजा रागवान् जातः । वनमालाऽपि राजानं दृष्ट्वा रागवती जाता । अमात्येन दूतीसंचारं कृत्वा नृपस्याऽन्तःपुरे समानीता । राजा
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या २
॥ ४७ ॥