SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sऽगमनकारणं प्रोक्तम् । श्रुत्वा, तीर्थकराऽऽज्ञां गृहीत्वा मिलनाय उत्थितः, त्वरितं समुद्रोपकण्ठे समागतः, तदा ते षडपि रथाः समुद्रमध्ये वजन्तो दृष्टाः, शङ्खमध्ये प्रोक्तम्-स्थीयतां स्थीयताम् , हे सखे ! पश्चाद् एकवारम् आगन्तव्यम् , अहमत्र भवद्दर्शनार्थ समागतोऽस्ति । कृष्णेनाऽपि शङ्खमध्ये उक्तम् , हे भ्रातः ! वयं बहुतरं समुद्रमार्गम् उल्लङ्याऽऽगताः, अथ पश्चाद् आगन्तुं न शक्यते, भवद्भिः कृपा रक्षणीया, स्नेह एधमानः कर्तव्यः, इत्युक्त्वा श्रीकृष्णदेवश्चचाल । कपिलोऽपि पद्मनाभं निर्भय॑ स्वराजधानीं गतः । अथ च कृष्णदेवः सर्वसमुद्राऽध्यानम् उल्लङ्घय गङ्गायास्तटे स्थितः । तदा लवणाऽधिपेन सह वार्ता चकार । पाण्डवान् प्रत्युवाच, भो पाण्डवाः! यावद् अहं लवणाधिपेन सह वार्ता करोमि तावद् भवद्भिर्नावा कृत्वा गङ्गां समुत्तीर्य नौः पश्चात् प्रेष्या। पाण्डवा द्रौपदीसहिता नावमारुह्य गङ्गां समुत्तीर्य, पारे समागत्य नावं च एकत्र गोपयित्वा स्थिता विलोकयन्ति । श्रीकृष्णो भुजाभ्यां बलेन गङ्गाम् उत्तीर्याऽऽयाति नाऽऽयाति वा, इति विचार्य नौन मुक्ता। श्रीकृष्णो बहुवार स्थित्वा । यदा नौ ऽऽगता तदा चिन्तितम् , पाण्डवाः किंवाऽपि त्रुडिता ज्ञायन्ते? नौना, इति चिन्तयित्वा चत्वारोभुजाः प्रकल्पिताः। एकभुजेन सारथिना सहितोरथमुत्पादितः। द्वितीयभुजेन शस्त्राणि गृहीतानि। तृतीयभुजेन हयौ गृहीती। चतुर्थभुजेन गङ्गानदी तरितुं प्रारेभे । सा सार्वद्विषष्टियोजनविस्तीर्णा वर्तते । एवं कृष्णो चतुर्भुजेन गङ्गा तरन् अतीव खिन्नो मध्ये हारितः। तदा गङ्गादेव्या प्रगटीभूय साहाय्यं कृतम् ,मध्ये स्थलं विकुर्वितम्। तत्र विश्राम For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy