________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥४६॥
कृष्णो रुष्टश्चिन्तयामास । मां दुर्गस्य बलं दर्शयति एष बराकः, तदाऽहं हरियंदा हरिवद् एनं पद्मनाभं गज कल्पद्रुम इव मारयामि, इत्युक्त्वा नृसिंहरूपं विधाय, हस्ततलास्फालनेन सर्वमपि दुर्ग पातयामास । सर्वमपि नगरं कलिका चकम्पे । मन्दिराणि सर्वाणि पतन्ति स्म । कृष्णपराक्रमम् ईदृशं दृष्ट्वा भीतः पद्मनाभो द्रौपद्याः शरणं गत्वा
वृत्तियुक्तं. जगाद रक्ष रक्ष महासति ! मां कृष्णात् । तदा द्रौपद्याऽभाणि हे वराक! मया पूर्वमेव उक्तं मम पृष्ठे समे
| व्याख्या. प्यन्ति कृष्णादयो बलिष्ठाः सन्ति । अथ श्रीकृष्णदेवः सत्पुरुषोऽस्ति, यदा जीवितव्याऽऽशां कुरुषे तदा Nil मदुक्तं वचनं मानय । स्त्रीवेषं कुरु, मुखे तृणं गृहाण, मामग्रे कृत्वा श्रीकृष्णस्याऽभ्यणे समागच्छ । अहं त्वां तत्पादयोः पातयिष्यामि । स तु नम्राणाम् उपरि कोपं न करोति । एवं कृते सति तव जीवितव्यं भविष्यति, नाऽन्यथा जीवितव्योपायः । तेनापि एवं कृतम् । यदा कृष्णचरणे लग्नः । तदा कृष्णेन उक्तम्-रे पद्मनाभ ! त्वम् एवं नाऽज्ञासीद् इयं कृष्णस्य भ्रातृजाया वर्तते । अस्याः पृष्ठे कृष्णो नाऽऽयास्यति ? परन्तु अन्धः पुमान मस्तके भग्ने सत्येव बुध्यति । याहि जीवन् , त्वत्कृतस्य कर्मणः फलं तवैव भवतु । द्रौपद्या त्वं जीवन् मोचितः, इत्युक्त्वा तं पादयोः पातयित्वा द्रौपदी लात्वा पाण्डवैः सह कृष्णदेवश्चचाल । मुदितः पाश्चजन्यं पूरयामास । ॥४६॥ तच्छब्दोश्रीमुनिसुव्रतस्वामिनामा तीर्थंकरस्याऽग्रेस्थितेन तत्रत्यवासुदेवेन कपिलनाम्ना श्रुतः। तीर्थंकरः पृष्टः-खामिन् ! मदीयः शङ्खः केन पूरितः ? किं कश्चिद् नवीनो वासुदेवः समुत्पन्नः तदा मुनिसुव्रतखामिना तत्र कृष्णा
Sri Song
%E
For Private and Personal Use Only