________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गत्वा पद्मनाभं प्राह-अहो पद्मनाभ ! श्रीकृष्णदेवः समागतोऽस्ति, द्रौपदी मत्सार्थे प्रेषय । त्वया सम्यग न कृतं यत् पाण्डवानां स्त्री अपहृता, तथाऽपि किमपि विनष्टं नास्ति, देहि द्रौपदीम् । इति श्रुत्वा पद्मनाभ आहरे दूत : मया द्रुपदी दानार्थ नाऽऽनीताऽस्ति । याहि, तव स्वामिनं प्रति वक्तव्यम्-मया द्रौपदी मम बलोपरि समानीताऽस्ति । चेद् यूयं समागताः स्थ तदा भवद्भियुद्धसज्जैर्भाव्यम् , विलम्बो न विधेयः, अहमपि क्षत्रियोऽस्मि, एवम् उक्त्वा दृतो निर्भस्य निष्काषितः । स दूत आगत्य सर्व खरूपं कृष्णाय निवेदयामास । कृष्णेन चिन्तितम् , असाध्यरोग औषधैर्विना न याति इति चिन्तयित्वा सन्नद्धबद्धीभूय कृष्णो यावद् रणोद्यतो जातस्तदा पश्चापि पाण्डवाः शस्त्राणि धृत्वा रथेष्वारुह्य कृष्णं प्रत्यूचुः भो स्वामिन् ! अस्माकं कार्यमेतत्, वयं युद्धं करिष्यामः । चेद् वयं भङ्गं प्रामुमस्तदाऽस्माकं भवद्भिः पृष्ठतः सहायो विधेयः । इति श्रुत्वा कृष्णेन उक्तम् , भवन्तोऽतीव योद्वारो वर्तन्ते, परन्तु अस्मिन् अवसरे भवद्वाणीप्रसादाद् भवतां भङ्गो भावी । इति श्रुत्वाऽपि पाण्डवाः कृष्णाऽऽज्ञया युद्धाय चेल्लुः । पद्मनाभोऽपि महतीं सेनां लात्वा पाण्डवैः सह युयुधे । भवितव्यतावशात् पद्मनाभाऽग्रे पाण्डवा भङ्गं प्रापुः । नश्यद्भिः सिंहनादश्चक्रे, सिंहनादं श्रुत्वा, पाण्डवानां भङ्गं ज्ञात्वा, रथे स्थित्वा, करे धनुधृत्वा पद्मनाभस्य सेनाम् एकाकिना रथेनैव मथयामास । धनुषष्टङ्कारशब्देनैव भग्नाः सर्वेऽपि पद्मनाभस्य भटाः । कृष्णस्याऽग्रे पद्मनाभो नष्ट्वा, पुरीं प्रविश्य वप्रस्य प्रतोलीं दत्वा स्थितः । तदा
For Private and Personal Use Only