SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ४५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्षयः, भ्रमद्भिर्भवद्भिः कुत्राऽपि द्रौपदी दृष्टा न वा ? तस्याः केनाऽपि अपहारः कृतोऽस्ति न ज्ञायते । तदा नारदोऽवादीत् सा तादृशी एव दृष्टा आसीत् । कमपि तापसम्, श्रमणम्, योगिनं न मानयति स्म । दुष्टानां यद् दुःखं पतति तत् स्तोकम् । मया तु सा सम्यग् नोपलक्ष्यते, परं तादृशी एव एकदा धातकीखण्डेऽमरकङ्काऽधिपस्य पद्मनाभस्याऽशोकवाटिकायां मया दृष्टाऽभूत् परं सम्यग् न जानामि इत्युक्त्वा नारदोऽगात् । अथ श्रीकृष्णदेवोऽपि नारदविलसितं जानाति स्म, तद् ज्ञात्वा पाण्डवैः ससैन्यकृष्णदेवोऽमरकङ्कां प्रति चचाल । अनुक्रमेणाऽखण्डप्रयाणैः संचरन् समुद्र यावत् समाजगाम । तत्रोपवासत्रयं कृत्वा कृष्णेन लवणसमुद्राधिपः समाराधितः सन् प्रकटीभूयेत्थं वभाण - किमर्थं स्मृतः ? भवतां यत् प्रयोजनं भवति तद् वक्तव्यम् । तदा कृष्णोऽवादीत् अस्माकं धातकीखण्डेऽमरकङ्कायां गन्तव्यमस्ति अस्मत्सैन्यस्य मागों दातव्यः अस्माकं द्रौपदी आनेतव्या । तदा देवो वदति स्म - इन्द्राऽऽज्ञां विना मागों दातुं न शक्यते भवतां चेदाज्ञा भवेत् तदाऽचैव द्रौपदी मयाऽऽनीय दीयते । पद्मनाभमपि अमरकङ्कासहितमेवाऽस्मिन् समुद्रे पातयामि । तदा कृष्णोऽवादीत् हे देवाऽनुप्रिय ! त्वम् एतादृश एवं शक्तिमान् वर्तसे, परमस्माकंबहरथानां मार्ग देहि । अहं यास्यामि तं पद्मनाभमनिष्टं साधयिष्यामि । तदा देवेन समुद्रे षण्णां स्थानां मार्गो दत्तः । कृष्णः पाण्डवैः सह समुद्रम् उल्लङ्घयाऽमरकङ्काया अग्रोद्याने उत्तीर्य एको दूतः प्रेषितः । दूतो For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. २ ।। ४५ ।।
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy