________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आगत्य पद्मनाभो वदति स्म हे द्रौपदि ! चिन्तां मा कुरु, पद्मनाभो नृपोऽस्मि अहम् । मया देवशक्त्या त्वमपहारिता भोगार्थम् , मया सह भोगान् भुत, अहं तवाऽऽज्ञाकारी वर्तेयम् । तदा स्वशीलपालनाय द्रौपदी जजल्पअहो !! देवानुप्रिय ! षण्मासं यावद् मम नामाऽपि न ग्राह्यम् । षण्मासमध्ये मत्पृष्ठे पाण्डवाः, तथा तेषां भ्राता श्रीकृष्णदेव एते मम शुद्ध्यर्थम् अवश्यं समेष्यन्ति । चेत् षण्मासे नाऽऽयास्यन्ति तदा त्वं वक्ष्यसि तत् करिष्यामि । द्रौपद्या इत्युक्तं श्रुत्वा पद्मनाभोऽपि वरम् , इत्युक्त्वा तस्थौ । मनसि ज्ञातं कोऽत्र समेष्यति । अन्तराले महान लवणसमुद्रः पतितोऽस्ति । द्रौपदी अपि आचाम्लतपः कुर्वाणा तिष्ठति । अथ प्रभाते द्रौपदी यदा पाण्डवैर्मन्दिरे न दृष्टा, तदा सर्वत्र शुद्धिः कृता । कुत्रापि न लब्धा। तदा द्वारिकायां गत्वा कुन्त्या कृष्णाय | उक्तम्-पुत्र ! द्रौपदी केनापि देवेन वा, दानवेन वा, राक्षसेन वा, विद्याधरेण खमन्दिराद् रात्री अपहृता। सर्वत्र दृष्टा परं कुत्राऽपि शुद्धिर्न लब्धा । त्वत्तः शुद्धिर्भविष्यति । कृष्ण ईषद् हास्यपूर्वकं प्राह-पञ्च पाण्डवा भार एकस्यापि कामिन्या रक्षणे न समर्थाः। अहं तु एकः सन् द्वात्रिंशत्सहस्रप्रमितानां स्त्रीणां रक्षा करोमि । तदा पुनः कुन्ती प्राह-पुत्र ! नाऽयं हास्याऽवसरः । त्वरितं द्रौपद्याः शुद्धिः कार्या, आशु इति वचः श्रुत्वा यावद् द्रौपद्याः शुद्धिकरणे कृष्ण उपायं चिन्तयति, तावत् तत्र नारदः समाजगाम । कृष्णं चिन्ताऽऽतुरं दृष्ट्वा नारदः प्राह-कथमद्य यादवाश्चिन्तातुराः ? कथमत्र कुन्ती आयाता? तदा कृष्णेन उक्तम्-यूयं देव
For Private and Personal Use Only