________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पसूत्रं
। चद् अस्मादपि अधिकस्तदा मया यादृशी हस्तिनागपुदी या नार्यः परिभ्राम्य
॥४४॥
नास्ति समुद्रः । चद् अस्मादपि अधिकस्तदा नास्त्येव । तादृशस्त्वम् असि । त्वया एतावन्त्य एव स्त्रियो दृष्टाः,
कल्पद्रुम तेन त्वम् एतासु एव प्राधान्यं मनुषे, परन्तु मया यादृशी हस्तिनागपुरे द्रौपदी पाण्डवानां स्त्री रूपवती दृष्टा कलिका तादृशी त्रिभुवनेऽपि न वरीवर्तते । तस्या वामाङ्गुष्ठनखोपरि सर्वास्त्वदीया नार्यः परिभ्राम्याऽपाकियन्ते, एव- बृत्तियुक्त. मुक्त्वा नारदोऽन्यत्राऽगमत् । तदा पद्मनाभो मनसि इत्यचिन्तयत्-अहो !! मे जन्म तदैव सफलं यदा तादृशी व्याख्या. मम स्त्री स्यात् । परं सा स्त्री कथम् आनीयते ? अत्र तस्या आनयने कश्चिद् उपायः कर्तव्यः । इति चिन्तयित्वा पौषधशालायां समागत्य उपवासत्रयं कृत्वा, पूर्वसङ्गतिकदेवताऽऽराधनं चक्रे । तृतीये दिवसे देवः प्रक-IN टीभूय बभाषे । किमर्थम् अहं त्वयाऽऽराधितः ? कार्य वद । इत्युक्ते पद्मनाभो वदति सम-दुपदीम् आनीय | देहि । तदा देवेन उक्तम्-सा सती वर्तते, शीलं न खण्डयिष्यति । राज्ञा कामान्धेन उक्तम्-भवतु, परं त्वं तु अत्राऽऽनय । वरम्, इत्युक्त्वा द्रौपदी स्वकीयभुवनप्रसुप्तां देवमायया उत्पाट्य पद्मनाभाय समर्पिता । पद्मना-1 भेन अशोकवाटिकायां मोचिता । मुक्त्वा देवोऽभाणीत्-त्वया मम पावें सतीनार्या अपहारः कारितस्तद्। अनिष्टं विहितम् । तस्माद् अतःपरं न स्मरणीयः । अहं नागमिष्यामि इत्युक्त्वा खस्थाने जगाम । अथ प्रभाते
॥४४॥ द्रौपदी जागृता सती विस्मिता इतस्ततश्चकितमृगी इव विलोकयामास । का इयं वाटिका ? किमिदं मन्दिरम् ? कुत्राऽऽगता ? किमहं खनं पश्यामि ? क मे मन्दिरम् ? क मे भर्तारः? यावद् एवं विचारयति तावद
For Private and Personal Use Only