________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनरन्तःपुरे द्रुपदीं द्रष्टुम् आगतः । द्रौपद्या आगच्छन् दृष्टः परम् अविरतिनम - प्रत्याख्यानिनं मिथ्यात्विनं ज्ञात्वा न चाऽऽदरो दत्तः, न वन्दितः, नाऽभिलापितः; यथा पूर्व स्थिता तथैव तूष्णीं स्थिता, तदा रुष्टो नारदर्षिः मनसि इति चिन्तयति यद् इयं द्रौपदी पञ्चानां भतॄणां गर्व करोति । तदाऽहं नारदो यदा एनां महासंकटे पातयामि । इति विचिन्त्य धातकीखण्डे पूर्वदिग्भरतक्षेत्रेऽमरकङ्काराजधान्यां कपिलवासुदेवस्य सेवकः पद्मनाभराजाऽस्ति । स पद्मनाभः स्ववाटिकायां स्त्रीभिः समं क्रीडां करोति । तत्र नारदर्षिरगमत् । तदा पद्मनाभेन वन्दित्वा, सन्मानं दत्त्वा पृष्टः-भो ऋषे ! भवद्भिः सर्वत्र भ्रमणं क्रियते, ग्रादृइयो मदीया रूपवत्यो नार्यस्तादृइयोऽन्यस्याऽपि कस्यचिद् ? इति पृष्टः । नारदोऽवसरं दृष्ट्वाऽवादीत् भो पद्मनाभ ! त्वं कूपदर्दुरवद् दृश्यसे, यथा कश्चित् समुद्रदर्दुरः कूपदर्दुराऽभ्यर्णे आजगाम । तदा कूपदर्दुरोऽवादीत् भोः ! त्वं क तिष्ठसि ? कुत आगतः ? इति पृष्टः समुद्रदर्दुरस्तं प्रत्याह-भोः ! समुद्रेऽहं तिष्ठामि, समुद्राद् आगतोऽहम् । पुनः कूपदर्दुरः प्राह कियान समुद्रो महान् अस्ति ? इति पृष्ट्वा स्वचरणौ प्रसार्य अदर्शयद् इयत्प्रमाणः किम् ? नहि, वृद्धः । तदा कूपदर्दुरः कूपस्यैककोणाद् उत्प्लुत्याऽन्यस्मिन् कोणे गत्वा वदति - इयत्प्रमाणोऽस्ति ? पुनः समुद्रददुरोऽवदत्-अतस्तु महाप्रमाणोस्ति । पुनः कूपदर्दुरः कूपस्याऽन्तः प्रदक्षिणां भ्रान्त्वा कथयामास इयत्प्रमाणः समुद्रः ? तदा समुद्रदर्दुरः प्राह - महत्प्रमाणः समुद्रः । तदा कूपदर्दुरः श्रुत्वा रुष्टः, भो असत्प्रलापिन् ! याहि दूरे ।
For Private and Personal Use Only