SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥४३॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. श्री महावीरस्य देशना निष्फला जाता, इति चतुर्थम् आश्चर्यकम् । अथ पञ्चमम् आश्चर्यम्-कृष्णस्य अमरकङ्कागमनम् , तदुच्यते-काम्पिल्यनगरे द्रुपदो नाम राजा, तस्य चुलनी प्रिया, तस्य द्रुपदी नाम पुत्री वर्तते । प्राप्तयौवना सती तस्याः स्वयंवरमण्डपः समारब्धः । देशेभ्य आहूता राजानो भूरिशः समेयुः । हस्तिनागपुराद् युधिष्ठिरादिपञ्चपुत्रयुतः पाण्डुराजाऽपि आयातः । अर्जुनेन राधावेधः साधितः । तदाऽर्जुनस्य कण्ठे वरमाला क्षिप्ता । परं पूर्वभवे ब्राह्मणस्य भार्या नागश्रीः द्रुपदीजीव आसीत् । साधोः कटुकतुम्बकशाकाहारदानाद् बहुवारं नरकायुर्भुक्त्वा, अनेकासु तिर्यग्योनिषु भ्रान्त्वा पश्चाद् एकस्य गृहस्थस्य कुले सुकुमालिका नाम्ना पुत्री जाता। यदा यौवनं प्राप्ता तदा पित्रा एकस्य इभ्यपुत्रस्य परिणायिता । ततस्तस्य शरीरे सुकुमालिकायाः शरीरस्य संयोगाद् महादाघः समुत्पन्नः । तदा स त्यक्त्वा गतः । पश्चाद् एको रङ्कस्तस्याः पतित्वेन स्थापितः । तादृशं स्वरूपं ज्ञात्वा तां त्यक्त्वा सोऽपि गतः । पश्चात् सा दुःखाद् वैराग्यं प्राप्य साध्वीनां पार्श्वे दीक्षां जग्राह । तस्मिन् भवे| -सुकुमालिकाया जन्मनि-साध्व्या वनमध्ये पञ्चभिः पुरुषैः सह क्रीडन्तीं गणिकां दृष्ट्वा, निजदौर्भाग्यं निन्दन्त्या निदानं कृतम् आसीत् । तेन वरमालाऽवसरे पश्चानामपि पाण्डवानां कण्ठे वरमाला दृष्टा । गगने देवैः इति उक्तम्-द्रौपदी पञ्चभर्तृकाऽपि सती वर्तते । तदा पञ्चभिः पाण्डवैः परिणीय हस्तिनागपुरे आनीता । मुखेन गृहे तिष्ठति । अन्यदा तत्र नारदर्षिः समागच्छत् । पाण्डवैरासनदानादिना सन्मानितः । क्षणं स्थित्वा, ॥४३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy