SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पागभवमजानानां षण्णामपि राजकुले समुत्पन्नानांनृपाणां पूर्वस्नेहात् परिणयनार्थ समकालं समागतानां वर्णपुत्त |लिकादृष्टान्तदर्शनेन प्रतिबोध्य, वर्षदानं दत्त्वा, दीक्षांजग्राह । मार्गशिरः शुक्लएकादशीदिने त्रिंशदूराजपुत्रीभिः सार्ध दीक्षांगृहीत्वा मौनमाधाय, तद्दिने एव केवलं प्राप्य तीर्थ प्रवर्तितम् । एकोनविंशतितमस्तीर्थकरः। मल्लितीर्थकरस्य स्त्रीपर्षदने तिष्ठति, पश्चात् पुरुषाणां पर्षत् तिष्ठति, इति तृतीयम् आश्चर्यकम् । अथ चतुर्थम् आश्चर्यमाह-श्रीमहावीरस्य केवलज्ञानोत्पत्त्यनन्तरं पर्षद् मिलिता, देशनांश्रुत्वा केनापि व्रत-प्रत्याख्यानं न गृहीतम् । तीर्थकरस्य आगत्य मिथिलानगरी रोधयामासुः । कुम्भराजा बहिःनिस्सृत्य युद्धं कुर्वन् भनो मिथिलां प्रविष्टः । ततो मल्लीप्रपञ्चवचनेन राज्ञा सर्वेऽपि आकारिताः । ते राजानो रत्नगृहं प्राप्ताः । पसु अपवारिकासु पृथक् पृथक् तस्थुः, तथा मल्लीप्रतिमा साक्षाद् मल्लीमिव दृष्ट्वा मोहिता विलोकयन्ति, तावदेव मल्लीकुमार्या आगत्य पुत्तलिकायाः पिधानं दूरीकृतम् , तेन प्रभूतो दुर्गन्धस्ततः प्रचलितः । तम् असहमानास्ते राजानो वस्त्रेण नासिका निपीड्य थू-थूकुर्वन्तो नष्टाः । तेषां प्रतिबोधाय मल्ली आगल्य कथयति स्म-हहो राजानः ! यदि रत्नमय्यामपि पुत्तलिकायाम् आहारसंसर्गाद् ईदृशो दुर्गन्धो जातो भवतां प्रातुं न शक्यः, दुःखावहश्च; तदा स्वाभाविकदुर्गन्धासु स्त्रीपु किम् एतावान रागः, प्रतिबन्धश्च क्रियते । कथं रागान्धा जाताः । इत्यादिप्रतिबोधवचनपूर्व पूर्वभवमित्रता कथिता, तदा तेषां जातिस्मरणं जातम् । ततः प्रतिबुद्धैः तैः प्रोक्तम्-अधुना किं कर्तव्यम् ? तदा मलीकुमार्या प्रोक्तम्-साम्प्रतं यूर्य स्वस्वस्थाने गच्छन्तु, मम केवलज्ञाने उत्पन्ने शीघ्रम् आगन्तव्यम् । तेऽपि सर्वे स्वस्वस्थानं गताः ।। पश्चादागत्य दीक्षा ग्रहीत्वा यावद् मुक्ति प्राप्ताः ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy