________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्रं
कल्पद्रुम कलिका वृचियुक्त. व्याख्या.
॥४२॥
|कृतम्, न एतादृशं क्वापि रूपमस्ति । ततश्चन्द्रच्छायराजेनाऽपि कुम्भं प्रति दूतो मुक्तः यद् मल्ली मम देया इति ॥२॥ पुनरितश्च अन्यदा मल्लीकुण्डलं भग्नम्, कुम्भेन राज्ञा कुण्डलसन्धानार्थ स्वर्णकारः समादिष्टः; स पाह-हे देव! इदं देवसंब|न्धि कुण्डलं न मया सन्धातुं शक्यते । ततो रुष्टेन राज्ञा स स्वर्णकारो देशाद् निष्कासितो गतो वाणारस्यां शङ्खराज्ञः समीपे निजावासार्थम् । राज्ञा पृष्टम् कथं स्वदेशं त्यक्त्वा अत्रागतः । तेन कुण्डलसंबन्धं कथयता मल्लीरूपवर्णनं कृतम् । तेनाऽपि शङ्खराज्ञा कुम्भं प्रति दूतो मुक्तः ॥ ३ ॥ इतश्च रुक्मी राज्ञाऽपि सुबाहुनान्या निजपुत्र्याः चातुर्मासिकमजनं विधाप्य शृङ्गार कारयित्वा, दृष्टं क्यापि मम पुत्र्याः सदृशं रूपम् ? इति दूताः पृष्टाः; तेऽपि प्राहुः-मल्लीरूपस्याप्रे इदं लक्षांशेऽपि नाऽऽयाति । तेनाऽपि रुक्मिराज्ञा कुम्भं प्रति मल्लीनिमित्तं दूतो मुक्तः ॥ ४ ॥ इतश्च कुम्भपुत्रेण मल्लीलघुभ्रात्रा मल्लदिन्नेन चित्रकश्चित्रसभा चित्रयिता चित्रकरण लब्धिमता यवनिकान्तरितमल्लीपादाङ्गुष्टं दृष्ट्वा मल्लीरूपं तत्स्वरूपं चित्रितमासीत् ॥ तत्र एकदा मल्लदिन्नः स्वभार्याभिः सह क्रीडन् मल्लीरूपं दृष्ट्वा लज्जितः, रोषाद् हस्तौ छित्त्वा चित्रकरो देशाद् निष्कासितः । स हस्तिपुरं गत्वा अदीनशत्रो राज्ञो मिलितः, तेन मल्लीरूपवर्णने कृते, अदीनशत्रुराज्ञाऽपि मल्लीनिमित्तं कुम्भं प्रति दूतो मुक्तः ॥ ५॥ एकदा पितुरप्रे राजसभायां धर्मचर्चायाम् एका परित्राजिका मल्लीकुमार्या जिता, मानभ्रष्टा कृता । सा रुष्टा सती काम्पिल्यनगर्या गत्वा जितशत्रो राज्ञो मल्लीरूपं पटे लिखित्वा दर्शयति स्म, तेनाऽपि राज्ञा रूपमोहितेन मल्लीकृते कुम्भं प्रति दूतो मुक्तः ॥ ६ ॥ एवं षण्णामपि राज्ञां षडपि दूताः समकालं कुम्भसमीपे आगताः, मल्ली याचिता । राज्ञा सर्वेऽपि दूताऽपमानिताः, न कस्यापि राज्ञो मम पुत्रीमहं दास्यामि । ततः षडपि राजानोऽभिमानेन निजं निजं सैन्यं लात्वा समकालम् |
॥४२॥
For Private and Personal Use Only