________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भरतक्षेत्रे अरहन्नकसदृशो दृढसम्यक्त्वस्य धारकोऽन्यः कोऽपि नास्ति, महदुत्पातान् कृतवान् । मिथ्यात्विलोकाः स्वकीयस्वकीयदेवान् हरि-हरा प्रत्याख्याय, वीतरागदेवं स्मरन्, अक्षोभ्यः स्थितः, देवेन बहुप्रकारं क्षोभि
कीटशी च ? तैः सर्व स्वरूपं कथितम् । ततः पूर्वभवप्रेमवशाद् मल्लीयाचनार्थ राज्ञा कुम्भराजानं प्रति दूतो मुक्तः ॥ १ ॥ इतच चम्पानगर्याम् अरहनकप्रमुखा व्यवहारिणः सन्ति । प्रवहणे चटिताः गम्भीरपत्तनं गत्वा, पुनद्वीपान्तरं चलिताः । तस्मिन् अवसरे इन्द्रेण अरहन्नकश्रावकस्य सभासमक्षं प्रशंसा कृता - अद्य तद्वचनं श्रुत्वा कोऽपि मिध्यात्वी देवोऽसहमानस्तत्र आगत्य दीन् स्मरन्ति स्म । अरहन्नकस्तु सुश्रावकः सागारम् अनशनं तोऽपि न क्षुब्धः, ततो देवेन प्रोक्तम् वीतरागदेवं मुक्त्वा हरि-हरादीन् देवान् स्मर, यथा उत्पातं निवारयामि । नो चेत्तवाऽधर्मेण सर्वान् समुद्रे बोलयिष्यामि, पापं च तव । लोकैरपि सर्वैः प्रोक्तम्- अरहन्नक एवं कुरु । परम् अरहनको निजसम्यक्त्वधर्मे दृढः स्थितः ततस्तुष्टश्चलत्कुण्डलाऽऽभरणो भूत्वा प्रदक्षिणां दत्त्वा करकमलं योजयित्वा स्तौति स्म - अहो !! अरहन्नकस्त्वं धन्यः, त्वं कृतपुण्यः, तव जन्म, जीवितं सफलम्; इन्द्रस्त्वां व्याख्यानयति स न्याय्यम् एव । तुष्टोऽस्मि, याचस्व, यत् कथयसि तद् ददामि । अरहन्नकः प्राहउभयलोकसाधको जिनधर्मो मया प्राप्तोऽस्ति, अन्यत्तु मम किमपि नाऽपेक्षणीयम् । ततोऽमोघं देवदर्शनम् इत्युक्त्वा, अनिच्छतोऽपि कुण्डलचतुष्टयं देवो दत्त्वा स्वस्थानं गतः । अथ ते व्यवहारिणः कुशलेन गम्भीरपत्तनं प्राप्य क्रमाद् मिथिलायाम् आगताः । तत्र कुम्भराज्ञः कुण्डलद्वयं प्राभृतीकृतम् राज्ञा च महीकुमार्यै दत्तम् । ततश्चम्पायाम् आगताः, तत्र चन्द्रच्छायराज्ञे स्वकीयस्वामिने अन्यत् कुण्डलद्वयं प्राभृतीकृतम्। तस्मिन् अवसरे राज्ञा पृष्टम् - भो व्यवहारिणः ! परदेशे किमपि आश्चर्य दृष्टम् ? तदा तैर्मल्लीकुमार्याः रूपवर्णनं
1
For Private and Personal Use Only