________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पद्रुम कलिका वृचियुक्तं. व्याख्या.
कल्पसूत्रंबलेन षड्भिर्खालमित्रैः सह दीक्षा गृहीता । सप्तभिः साधुभिः परस्परम् इति वचननियमो विहितः सर्वैरपि अस्माभिः सदृशं तपः करणीयम् , इति निश्चयं कृत्वा सुखेन सप्ताऽपि साधवस्तपः कुर्वन्ति । एकदा महाबलेन
ता-सवरा ॥४१॥
चिन्तितम्-एभ्यः किञ्चिद् अहमधिकं तपः करोमि, येनाऽहम् एभ्योऽधिको भवामि इति विचिन्त्य पारणादिने महाबलो वक्ति, अद्य मम शिरो दुःखयते, अहं पारणं न करिष्यामि, भवद्भिः पारणाः कर्तव्याः, एवं मायां विधाय तेभ्यः पारणं कारयित्वा खयम् उपवासं कृत्वा, एवं विंशतिस्थानानि मायया एव सेवित्वा तीर्थकरनामकर्म बद्धम् । ततः सप्तापि साधवः कालं कृत्वा वैजयन्तविमाने देवत्वेन उत्पन्नाः । पुनस्ततच्युत्वा महाबलजीवो मिथिलानगर्या कुम्भस्य राज्ञः प्रभावती राज्ञी, तस्याः कुक्षी प्राचीनमायाप्रभावात् स्त्रीत्वेनोत्पन्नः । तदा प्रभावत्या चतुर्दशखप्ना दृष्टाः । पूर्णेषु मासेषु पुत्री जाता मल्ली इति नाम्ना । यदा मल्ली यौवनं प्राप्तां तदाऽनुक्रमेण
१. तदा अवधिज्ञानेन षडपि पूर्वभवमित्रनृपान् अन्यान्यस्थानेषु उत्पन्नान् जानाति स्म । ततस्तेषां प्रतिबोधनाय रत्नमयं मोहनगृहम् अशोकवाटिकामध्ये कृतम् । तस्मिन् मोहनगृहे घडपवरिकासहिते जालमण्डपे रत्नमयीं शिरच्छिद्रां स्वमूर्ति चक्रे । ततो मल्ली |
प्रतिदिनम् एकैकाम् अन्नपिण्डी स्वहस्तेन मूर्तिच्छिद्रे क्षित्वा रत्नोत्पलपिधानं ददाति ॥ इतश्चाऽयोध्यायां सुप्रतिबुद्धराज्ञा पद्मावत्याः IN स्वदेव्याः नागयक्षमन्दिरे पूजार्थ रचितम् अत्यन्तम् अद्भूतं श्रीदाम दृष्ट्वा दूतान पृच्छति स्म-भो दूताः ! ईदृशं क्वापि श्रीदाम |
दृष्टम् । तदा दूतैः प्रोक्तम्-हे राजन् ! मल्लीकन्याया इतोऽपि अधिकतरं दृष्टम् । तस्याने इदं लक्षांशेऽपि नाऽऽयाति । का मल्ली |
॥४१॥
For Private and Personal Use Only