________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शरीरेऽपि तद्ज्वालावशाद् रक्तातीसारः समजनि, एतत् प्रथमम् आश्चर्यकम् ॥१॥ द्वितीयं गर्भापहारलक्षणम् आश्चर्यकं वाच्यते एव ॥ २ ॥ तृतीयं स्त्रीतीर्थंकरः। तदाश्चर्यकं श्रूयताम्-अस्मिन्नेव जम्बूद्वीपे पूर्वमहाविदेहे सलिलावतीविजये वीतशोकायां नगर्या महाबलो नाम राजा राज्यं करोति । अन्यदा प्रस्तावे महासर्व व्यतिकरं कथितवान् । ततो भगवता उक्तम्-भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय-यद् एष गोशाल आगच्छति, न केनाऽपि अस्य संभाषणं कर्तव्यम् ; इतस्ततः सर्वेऽपसरन्तु, ततस्तैः तथाकृते गोशालक आगत्य भगवन्तम् अवादीत्-भोः काश्यप ! किम् | एवं वदसि-यदयं गोशालो मङ्खलिपुत्रः' इत्यादि । स तव शिष्यस्तु मृतः, अहं तु अन्य एव परिषहसहनसमथै तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि । एवं च भगवत्तिरस्कारम् असह्यमानी सुनक्षत्र-सर्वानुभूती अनगारौ मध्ये उत्तरं कुर्वाणौ तेन तेजोलेश्यया दग्धौ स्वर्ग गतौ । ततो भगवता उक्तम्-भो गोशाल ! स एव त्वम् , नाऽन्यः । मुधा किम् आत्मानं गोपयसि । न वम् आत्मा गोपयितुं शक्यः । यथा | कश्चिचौर आरक्षकैदृष्ट अङ्गुल्या, तृणेन वा आत्मानम् आच्छादयति, स किम् आच्छादितो भवति ? एवं च प्रभुणा यथास्थिते अभिहिते, स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच । सा च भगवन्तं त्रिप्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनाम् अनुभूय सप्तमरात्रौ मृतः । भगवान् अपि तस्यास्तापेन पण्मासी यावलोहितव!बाधाम् अनुभूतवान् , स तु रक्ताऽतिसारः कर्मण उदयेन भगवति जातः, परं च लोके गोशालकमुक्तया तेजोलेश्यया जात इति वार्ता बभूव; अयम् अधिकारः 'श्रीभगवतीसूत्रे १५ शतके ।
१. अत्र मान्धाताराज्ञः, तथा बलदेवस्य दृष्टान्तौ स्तः । स गर्भाऽपहारव्याख्यानाऽवसरे दर्शयिष्यामि.
For Private and Personal Use Only