________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तया सह सुखं भुञानस्तिष्ठति । अथ च वीराऽऽख्यः कौलिकस्तद्विरहाद् अहिलीभूय हा !!! वनमाला इति जल्पन नगरगलिकासु परिभ्रमति । एकदा वर्षाकाले राज्ञा, वनमालया च प्रासादगवाक्षेण दृष्ट्वा चिन्तितम् , द्वाभ्यां विचारितम्-मया पापिष्ठेन परस्त्री अपहृता । बनमालया विचारितम्-मया पापिष्ठ्या एतादृशः स्नेह-12 वान् यो मद्विरहेण ग्रहिलो जातः स पतिस्त्यक्तः। आवयोः कागतिर्भविष्यति । इति विचारं कुर्वतोस्तयोः उपरि दैवयोगाद् विद्युत् पपात । ततो द्वौ अपि मृत्वा शुभध्यानाद् हरिचर्षक्षेत्रे युगलत्वेन समुत्पन्नौ । वीराख्योऽपि तौ मृतौ श्रुत्वा समीचीनो भूत्वा तापसीभूय मृत्वा किल्बिषदेवत्वेन उत्पन्नः । तदा ज्ञानेन दृष्टौ तौ । युगलत्वेन समुत्पन्नौ । मनसि चिन्तितम्, एतौ युगलभवात् च्युत्वा देवी भविष्यतः । मम वैरिणी एतौ कथं देवो भवतः ? इति विचिन्त्य ततस्तौ उत्पाट्य चम्पानगर्याम् इक्ष्वाकुवंशीयो राजा चण्डकीर्तिरपुत्रो मृतस्तदा। तनगरलोकाश्चिन्तां कुर्वन्ति, कोऽत्र राजा विधीयते तदा तेन किल्बिषदेवेन नगरलोकेभ्यस्तो समर्पित तेन ज्ञातम् अत्र राज्यं कृत्वा, मृत्वा नरकं यास्थतः । मम शत्रू कथं देवो भवेताम् ? लोकानां पुनरिति शिक्षादत्ता-भो लोकाः ! यदा एतयोः क्षुधा लगति तदा मया भवतां कल्पवृक्षाः दत्ताः सन्ति । एषां फलमिश्रित मांसभक्षणं कारयितव्यम् । आक्षेटकं कारयितव्यम् । मनसा ज्ञातं मांसाहारेण तयोर्नरकगतिर्भविष्यति तदा मदवैरं वलिष्यति । हरि-हरिणी इति तयो म प्रकटीकृत्य गतो देवः । ततो लोकैस्तथैव कृतम् । ततो हरिवं-IN
For Private and Personal Use Only