________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पमूत्रं
॥४८॥
शकुलस्य उत्पत्तिर्जाता । ततस्तौ मृत्वा नरकं जग्मतुः । इति ससमकम् आश्चर्यकम् ॥ अथ अष्टमम् आश्चर्यकम् । कल्पद्रुम उच्यते-अत्र भरते विभेलसंनिवेशे पूरणनामा श्रेष्ठी वसति । तेन तापसी दीक्षा गृहीता। उपवासद्वयं पारणं कलिका च तपः करोति । परं पारणादिने चतुष्कोणपात्रके भिक्षां गृहीत्वा, प्रथमे कोणे पतितां भिक्षां जलचरमीनेभ्यो
वृत्तियुक्तं.
व्याख्या. ददाति । द्वितीये कोणे काकादिविहङ्गेभ्यो ददाति । तृतीये कोणेऽभ्यागत-तापसेभ्यो ददाति । चतुर्थे कोणे पतितां भिक्षाम् एकविंशतिवारम् उदकेन प्रक्षाल्य भुते । द्वादशवर्ष यावत् तपः करोति स्म । ततो मृत्वा चमरचञ्चायां चमरेन्द्रत्वेन उत्पन्नः । अवधिज्ञानं प्रयुक्तम् , तदा सौधर्मेन्द्रस्य चरणौ खकीयमस्तकोपरि दृष्टौ । तदा कोधः समुत्पन्नः । सर्वेऽपि अमात्यस्थानीया देवाः समाहूताः । तानाऽऽहयाऽवादीद् भो देवाः ! एष दुष्टोऽपार्थ्यवस्तुप्रार्थको ममोपरि चरणौ कृत्वा का स्थितोऽस्ति ? तथा ते देवा ऊचुः, भो खामिन् ! अनादिकालस्यैषा स्थितिर्वर्तते, अत्र क्रोधो न कार्यः । भवादृशा इन्द्राः पूर्वे बहवो बभूवुः, तेषाम् उपरि एवमेव उपरिस्थस्येन्द्रस्य चरणी आस्ताम् , ईर्षा मा कुरुध्वम् । तथापि चमरेन्द्रः क्रोधकम्पिताङ्गः स्वकीयाऽऽयुधशालायां समागत्य, पशुशस्त्रं हस्ते गृहीत्वा सौधर्म देवलोकं पति गन्तुं मनः कृतम् । असुरकुमारदेवैः निषिद्वोऽपि महदुरूपं बिकुर्वितम् । तदा श्रीमहावीरं सुसमारपुरे कायोत्सर्गस्थितं दृष्ट्वा बन्दनां कृत्वा शरणं चिन्तयित्वा उचैर्जगाम । तत्र सौधर्माऽवतंसकविमाने गत्वा एकलक्षयोजनप्रमाणरूपेण एकपादेन सौधर्मविमानस्य पद्मवर
॥४८
For Private and Personal Use Only