________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदिकां समाक्रम्य, द्वितीयेन पादेन सौधर्मसभां समाक्रम्य सर्व देवलोकं क्षोभयन् उच्चैर्जजल्प-अरे देवाः ! कुत्रास्ति भवताम् इन्द्रो दुष्टो यो ममोपरि चरणौ कृत्वा तिष्टति । स नीचोऽप्रार्थ्यवस्तुपार्थकः, कृष्णचतुर्दश्यां - रजन्याम् , अमावस्यायां वा संजातः, मारयामि अनेन पशुना तंदुष्टम् इति देवान् निर्घाटयामास । मुखाद् अग्निज्वालांनिष्कासयन् प्रलम्बोष्टौ विकुर्विती, कूपसदृशौ गल्ली, रन्ध्रसदृशे नासिके, अग्निसदृशे नेत्रे, सूर्पतुल्यौ द्वावपि कर्णी, कुशीशदृशा दन्ताः, गले सर्पाः परिधृताः, हस्ते वृश्चिकानाम् आभरणानि परिधृतानि । कुत्रचित् शरीरे मूषकाः, कुत्रचिद् नकुला:, कुत्रचिद् गोधा लम्बायमानास्तिष्ठन्ति । वर्णेन कृष्णः। एतादृशं विरूपं दृष्ट्वा भीताः सर्वदेवाङ्गनाः, देवाश्च । सौधर्मेन्द्रेण कोलाहलं श्रुत्वा आगतेन ज्ञातोऽयं चमरेन्द्रः, मम सिंहसनाद मां पातनाय समागतोऽस्ति । तदा क्रोधं कृत्वा, हस्ते वज्रमायुधं धृत्वा तर्जितः । वज्रं मुक्तम् । अग्निज्वालां मुञ्चन्तं वज्रमाऽऽयुधम् | आयान्तं दृष्ट्वा भीतश्चमरेन्द्रो नष्टः । नश्यतो मस्तकं नीचैर्जातम् , पादौ ऊद्धीबभूवतुः । पश्चाद् वजं जातम् । स्थाने स्थाने आभरणानि पतन्ति । स्थाने स्थाने स्वयं स्खलति । चमरेन्द्रस्य नीचैर्गमनेऽधिकशक्तिः, वज्रस्य उच्चैगमने प्रचुरा शक्तिः , तेन हेतुना चमरेन्द्रस्य वजं न लग्नम् । चमरेन्द्रो दुःखेन खयं शरीरं संकोचयन यत्र श्रीमहावीरः कायोत्सर्गे स्थितोऽस्ति तत्र श्रीमहावीरस्य पादयोरन्तराले वज्राद् भीतः सन् शरणं प्राप्तः । वज्रं च धीरपाचे बनाम । सौधर्मेन्द्रेण चिन्तितम् , अयं चमरेन्द्रः किञ्चित् शरणं हृदि निधाय समागतो भवि-|
क.स.
For Private and Personal Use Only