SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ४९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्यति । मद्वज्रं तत्पृष्ठे गमिष्यति । कश्चित्साधुम्, तीर्थंकरबिम्बं वा वज्रं मा विनाशयेत् इति विचिन्त्य पृष्ठतः सौधर्मेन्द्रः समाऽऽगत्य वीरशरणाऽऽगतं दृष्ट्वा, साधर्मी इति ज्ञात्वा मुक्तः । तथा श्रीवीरं स्तुत्वा, नत्वा, क्षामयित्वा, वज्रं लात्वा, चमरेन्द्रेण सह मैत्रीं कृत्वा स्वस्थाने गतः । चमरेन्द्रोऽपि स्वस्थानं प्राप्तः । इति चमरेन्द्रोत्पातम् । इति अष्टमम् आश्चर्यकम् ॥ अथ नवमम् आश्चर्यकं कथ्यते - 'रिसहो रिसहस्स सुया, भरहेण विवजिया नवनवई | अद्वेव भरहस्स सुया, सिद्धिगया एगसमयम्मि' ॥ १ ॥ अस्यार्थः - ऋषभदेवः, ऋषभदेवस्य | पुत्रा भरतविना नवनवतिः (९९), अष्टौ भरतपुत्रा एतेऽष्टोत्तरशतप्रमिताः साधवः पञ्चशतधनुः प्रमाणदेहाः, उत्कृष्टाऽवगाहनया एकस्मिन् समये एव मोक्षं गताः । इति नवमम् आश्चर्यकम् ॥ अथ दशमम् आश्चर्यक कथ्यते - श्रीसुविधिनाथस्य मुक्तिगमनाद् अनन्तरं कियान् कालो गतस्तदा साधूनां विच्छेदो जातः, लोकैर्यतीनां स्थानेऽसंयमिनः पूजिताः, वन्दिताः, मानिताश्च । इति दशमम् आश्चर्यकम् ॥ अनन्ता उत्सर्पिण्योऽवसर्पिण्यश्च यदा यान्ति तदा दशाऽऽश्वर्याणि जायन्ते । गाथा रिसहे अहियसयसिद्धं सीयलजिणम्मि हरिवंसो । नेमिजिणे अमरकंकागमणं कण्हस्स संपन्नं ॥ १ ॥ इत्थीतित्थं मल्ली पूआ अस्संजयाण नवमजिणे । अवसेसा अच्छेरा वीरजिणेंदस्स तित्थम्मि ॥ २ ॥ सिरिरिसह - सीयले एक्केकं मल्लि-नमिनाहेयं । वीरजिणंदे पंचओ एवं सव्वेसु पाएणं ॥ ३ ॥ For Private and Personal Use Only कल्पद्रुम कलिका वृचियुक्तं. व्याख्या. २ ॥ ४९ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy