________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दरिद्राणां सर्वथा निर्धनानां कुलेषुः कृपणानां कुलेषु। कृपणाः के ? 'धनेषु सत्सु अपि ये न भुञ्जन्ति, न च ददति, कृपणास्तेन उच्यन्ते' तेषां कुलेषु । तथा भिक्षाचराणां कुलेषु ब्राह्मणानां कुलेषु तीर्थंकर - चक्रवर्ति- बलदेववासुदेवाः पूर्वं नाऽऽयाताः, इदानीं नाऽऽयान्ति, नाऽऽयास्यन्ति ॥ १६ ॥ तीर्थंकर-चक्रवर्तिप्रमुखा एतेषु कुलेषु आगताः, आयान्ति, आयास्यन्ति । केषु कुलेषु ? तान्याह - उग्रकुलेषु ये आदिनाथस्वामिना कोटपालत्वेन स्थापितास्तेषां कुलेषु । आदिनाथेन गुरुत्वेन स्थापितास्तेषां कुलेषु । राजकुलेषु आदिनाथेन मित्रत्वेन स्थापितास्तेषां कुलेषु । इक्ष्वाकुकुलेषु आदीश्वरस्य वंशेषु । क्षत्रियाणां कुलेषु । आदीश्वरेण शेषप्रकृतिलोकत्वेन स्थापितास्तेषां कुलेषु । राजन्यकुलेषु, प्रसिद्धकुलेषु अन्येष्वपि ज्ञात प्रसिद्धऋषभदेववंशसमुत्पन्नेषु । इक्ष्वाकुवंशीया राजानः, नागवंशेषु नागवंशे भवा राजानः, सुभटा बलवन्तो राजानस्तेषां कुलेषु समुत्पन्नाः. मल्लकिनो नृपाः, कौरव्याः कुरुवंशसमुत्पन्ना एतेषां कुलेषु । तथाप्रकारेण विशुद्धमातृ-पितृसमुत्पन्नेषु कुलेषु तीर्थंकर-चक्रवर्ति- बलदेवाद्या आयाताः, आयान्ति, आयास्यन्ति ॥ १७ ॥
अथ पुण से विभावे लोगच्छेरयभूए, अणंताहिं उसप्पिणीहिं, अवसप्पिणीहिं विइकंता हिं समुप्पज्जइ ॥ ग्र० १०० ॥ नाम-गोत्तस्स वा कम्मस्स अक्खीणस्स, अवेइयस्स, अणिजिन्नस्स
For Private and Personal Use Only