SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. करोमि । महत् तपः प्रारब्धम् । निरतिचारं द्वादशवर्ष चारित्रं प्रपाल्य, अन्तेऽनशनं कृत्वा पञ्चाऽनुत्तरदेवत्वेन उत्पन्नः। महाविदेहे उत्पद्य, दीक्षां गृहीत्वा मोक्षं गमिष्यत्ति। तस्माद् भगवान् धर्मरथस्य सारथिसमानः । पुनः कथंभूतेभ्यः ? धर्मवरचातुरन्तचक्रवर्तिभ्यः-धर्मचक्रेण चतुर्गतीनाम् अन्तं कृत्वा मोक्ष प्राप्तेभ्यः, अतो धर्मवर चातुरन्तचक्रवर्तिभ्यो नमः । पुनः कथंभूतेभ्यः ? अप्रतिहतवरज्ञान-दर्शनधरेभ्यः-अप्रतिहतम्-अप्रतिपाति यज्ज्ञानम् , तथाऽप्रतिपाति यद् दर्शनम्, तयोरुभयोर्धारकेभ्यो नमः । पुनः कथंभूतेभ्यः ? द्वीप इव त्रायकेभ्यः-यथा समुद्रे द्वीप आधारभूतस्तथा भगवान् संसारसमुद्रे आधारभूतः । पुनस्त्रायकेभ्यः-रक्षकेभ्यः । पुनः 'सरणगईपइट्ठा' इति कोऽर्थः ? शरणागतप्रतिष्ठेभ्यः। ये वीतरागस्य शरणे आगच्छन्ति तेषां भयं न भवति इत्यर्थः, तेषां प्रतिष्ठा भवति इत्यर्थः। पुनः कथंभूतेभ्यः? 'वियदृच्छउमाणं' व्यावृत्तछमस्थावस्थेभ्यः । पुनः कथंभूतेभ्यः ? जिनेभ्य:-राग-द्वेषजेतृभ्यः । अन्येभ्योऽपि राग-द्वेषयोर्जयकारयितृभ्यो नमः । पुनः कथंभूतेभ्यः ? तीर्णेभ्यः-संसारसमुद्रतीर्णेभ्यः । पुनः अन्यान् तारकेभ्यः। पुनः कथंभूतेभ्यः? मुक्तेभ्य:-कर्मबन्धनात्, अन्यान् मोचकेभ्यः । पुनः कथंभूतेभ्यः ? 'सव्वन्नूर्ण' सर्वज्ञेभ्यः । पुनः सर्वदर्शिभ्यः । पुनः कथंभूतेभ्यः ? 'सिवमयलमरुयमणंतमक्खयमव्वाबाहम पुणरावत्तिसिद्धिगइनामधेयं, ठाणं संपत्ताणं' शिवम् उपद्रवरहितम् । अचलं स्थिरम् । अरुजं रोगरहितम् । अनन्तम् । अक्षयम् । अव्यावाधम् आवाधारहितम् । अपुनरावृत्ति-यत्र गते ॥३६॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy