________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मण्डले त्वं समाजम्मिथ । तत्र च तन्मण्डलं भयभीतैः सर्वैः जन्तुभिः समारुद्धम् । कुत्रापि एतादृशं स्थानं| नाऽभवद् यत्र त्वम् अतिष्ठः । एवं स्थानाय भ्रममाणस्त्वम् एकस्मिन् प्रदेशे समागतः। यत्र ऊर्वेश्चतुर्भिश्चरगैरेवाप्रतिष्ठः । तत्र एको भयात् संत्रस्तः, कुत्रापि स्थानम् अलभमानः शशकः समाजगाम । तदा एव त्वया कर्णकण्डूयनार्थम् एकश्चरण उच्चैश्चक्रे । शशकश्च तचरणस्थले आगत्य स्थितः । तं च तत्र स्थितं दृष्ट्वा त्वं करुणापरोऽभूः । दयावशाचरणम् अन्तरिक्षे एव दधिषे, नीचैन मुमोचिथ; एवं त्रिदिनं त्वं कष्टं चकर्थ तृतीये दिने महादवाऽनले निवृत्ते सति सर्वे जन्तवः स्वस्थानं जग्मुः। तदा त्वमपि चरणं नीचैमुमोचिथ । तदा तत्कालं पर्वतस्य शृङ्गवत् त्रुटित्वा भूमौ अपतः । वेदनावशात् त्रिदिनात् पश्चात् कालं कृत्वा जीवदयावशात् त्वं मेघकुमारोऽभूः । हे महानुभाव ! तिर्यग्भवेऽपि त्वया तादृशी जीवदया अपालिता, महती वेदना सोढा । तत्र
त्वया दुःखं न प्राप्तम् , इदानीं तु तव साधूनां हस्त-पादादिसंघवशात् का वेदना जाता ? मनसः परिणामाFalश्चारित्रात् कथं चालिताः? दुर्लभं चारित्रम् । तिर्यग्भवे तु महावेदनायां जातायामपि दद्यापरिणामाद् न भ्रष्टः,
इदानीं नरत्वं प्राप्य अस्मद्वचसा प्रतिबुध्य, ऋद्धिं त्यक्त्वा, दीक्षां लात्वा, मनःपरिणामाश्चारित्रात् शिथिलीकुरुषे, एतत् तव युक्तं नास्ति । इति वीरवाणीं श्रुत्वा, जातिस्मरणात् प्रागभवं ज्ञात्वा धर्मे स्थिरो बभूव । मेघकुमार इति अभिग्रहं जग्राह च अद्य पश्चाद् नेत्रपरिचर्यां विहायापरस्य शरीराङ्गो-पाङ्गस्य शुश्रूषांन
For Private and Personal Use Only