SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं केशकर्तनं कृतम् । महामहोत्सवपूर्वकं लुञ्चनं कृत्वा कुत्रिकाऽऽपणहट्टाद् लक्ष-लक्षमूल्येन रजोहरणं पात्रका कल्पद्रुम लात्वा श्रीमहावीरशिष्यो यती जातः। सन्ध्यासमये रात्री लघुत्वात् सर्वसाधूनां पान्ते संस्तारकं प्रस्तरितम् । रात्री कलिका साधुभि रागच्छद्भिः पठनार्थम् , तथा कायचिन्तार्थम् , प्रस्रवणार्थ गच्छद्भिः पादाभ्यां दुःखितः रजोभिरवगु- वृत्तियुक्त. ण्ठितः, तदा रात्री मेघकुमारस्य क्षणमात्रमपि निद्रा न समाजगाम । तदा चिन्तितम्-कथं मे दिनानि दीक्षायां व्याख्या. यास्यन्ति । अथैव रात्रौ साधुभिनाऽहं सन्मानितोऽग्रे मां को गणयिष्यति । 'परिणयनसमये चत्वरिकायाम् एव दम्पत्योः कलहो जातस्तदाऽग्रे का गृहसुखस्य वार्ता' तस्मात् प्रभातसमये श्रीमहाबीरम् आपृच्छय गृहे एव स्थास्यामि । अद्यापि मे किमपि गतं नास्ति । अत्रैव माता-पितरौ स्तः । मम स्त्रियोऽपि अत्रैव वसन्ति, इति विचिन्त्य प्रातःसमये श्रीमहावीरसमीपे आगतः, तदा महावीरेण उक्तम्-हे मेघकुमार! त्वया रात्रौ मनसि किं चिन्तितम् एभिः साधुभिस्तव किं दुःखं दत्तम् , किंतु अस्माद् भवात् पूर्वस्मिन् तृतीये भवे त्वं वैताट्यपते सहस्रहस्तिनीनां परिवारसहितः, श्वेतवर्णः, सुमेरुपभो नाम षड्दन्तो गजोऽभूत् । दवाऽनलाद् भीतो नष्टः । कर्दमे मनः । वैरिणा गजेन दन्तमहारैस्ताडितो महावेदनां सप्तदिनं भुक्त्वा, शतवर्षम् आयुः प्रपाल्य, मृत्वा विन्ध्याचलपर्वते चतुर्दन्तः, रक्तवर्णः, सप्तशतहस्तिनीनां परिवारसहितो मेरुप्रभुनामा पुनर्गजो जातः । तत्र दवाऽनलं दृष्ट्वा जातिस्मरणवशाद् मण्डलं कृतम् । यदा उष्णकाले दवाऽनलो लग्नस्तदा भीतः, तत्र सुखार्थ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy