________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः कथंभूतेभ्यः? बोधिदायकेभ्यः सम्यक्त्वदायकेभ्यः । पुनर्धर्मदायकेभ्यः। पुनः कथंभूतेभ्यः? धर्मदेशकेभ्यः।। पुनः कथंभूतेभ्यः ? धर्मनायकेभ्यः । पुनः कथंभूतेभ्यः ? धर्मसारथिभ्यो यथा सारथिर्मार्गभ्रष्टान् अश्वान पुनःप्रेरयित्वा मार्गे आनयति, तथा भगवानपि धर्ममार्गभ्रष्टान् जीवान् धर्मवचनैः प्रेरयित्वा धर्ममार्गे समानयति, मेघकुमारवत्। राजगृहनगर्यां श्रेणिको राजा, तस्या धारिणी राज्ञीकदाचिद् गर्भवती जाता,तदातस्यास्तद्गर्भप्रभावाद् अकालमेघसमये गजमारुह्य नगरेभ्रान्त्वा नगरादु बहिःप्रदेशेषु पर्वता-राम-नदी-सरोवरेषु अहं क्रीडां करो-| मि।तदा मेघो गर्जति, विद्युद् गगने झात्कारं करोति, दर्दुरा जल्पन्ति, मयूराः कूजन्ति, वेगवतीभिः छटाभिर्मेघो वर्षति, नद्यः पर्वतेभ्यः कलुष बहुलपानीयप्रवाहं वहन्ति; एतादृशं वर्षाकालसुखम् अनुभवामि । यद् ईदृशं मनोरथं धारिणी न प्रामोति स्म तेन दुर्बला बभूव । तां दृष्ट्वा श्रेणिकेन पृष्टो मनोरथः । अभयकुमारेण पूर्वेसंगतदेवाऽऽराधनेन पूर्णीकृतः। अनुक्रमेण पूर्णमासे पुत्रो जातः । मेघकुमार इति नाम दत्तम् । यौवनाऽवस्थायां पित्रा तस्या|ऽष्टोकयन परिणायिताः। कन्यानां माता-पितृभ्यां मेघकुमारस्या-ऽष्टौ सुवर्णकोटयः प्रदत्ताः, अष्टौ रजतकोटयः, अष्टौ रत्नकोटयः, अष्टौ गृहाणि समर्पितानि । अपरम् ऋद्धेः पारं नास्ति, एवं भोगसुखं भुजानो मेघकुमारस्तिष्ठ
ति । अन्यदा तत्र श्रीमहावीरः समवमृतः । तद्देशनां श्रुत्वा प्रतिवुद्धः। सर्व त्यक्त्वा मातृ-पितॄन् आपृच्छय INमातृ-पितृभ्यां बहुधा निवारितोऽपि दीक्षां जग्राह । लक्ष नापिताय प्रदत्तम् । तेन चतुरङ्गुलकेशान् रक्षयित्वा
For Private and Personal Use Only