SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. कल्पसूत्र INउच्यन्ते । पुनः कथंभूतेभ्योऽर्हद्भ्यः? आदिकरेभ्यः-खस्य तीर्थस्य आदिकरणात् । पुनः कथंभूतेभ्यस्तीर्थकरे भ्यः ? तीर्थशब्देन चतुर्विधसंघस्तस्य तीर्थस्य कारकेभ्यो नमः । पुनः कथंभूतेभ्यः ? खयम् आत्मना, एवम् उप॥३४॥ देशं विनैव संबुद्धेभ्यः । पुनः कथंभूतेभ्यः ? पुरुषेषु उत्तमेभ्यः । पुनः कथंभूतेभ्यः ? पुरुषसिंहेभ्यः । पुनः कथंभूतेभ्यः ? पुरुषेषु वरप्रधानपुण्डरीककमलसदृशेभ्यः-यथा कमलं कर्दमाद उत्पन्नं, जलाद् वर्धितम् अनुक्रमेण |उभाभ्यां पृथक तिष्ठति तथा तीर्थकराः संसारपङ्के समुत्पन्नाः भोगजलैर्वर्धिता अनुक्रमेण उभयेभ्यः पृथक तिष्ठन्ति । पुनः कथंभूतेभ्यः ? पुरुषेषु वरप्रधानगन्धहस्तिभ्यः-यथा गन्धहस्तिनो गन्धाद् अन्ये क्षुद्रगजा भयात् पलायन्ते तथा यन्त्र भगवान् तीर्थंकरो विहारं करोति तत्र सप्त ईतयो न भवन्ति । पुनः कथंभूतेभ्यः ? लोकेषु उत्तमेभ्यः । पुनः कथंभूतेभ्यः ? लोकानां भव्यजीवानां नाथेभ्यः । पुनः कथंभूतेभ्यः ? लोकस्य हितेभ्यः, हितकारकेभ्यः-पश्चास्तिकायस्य सत्यप्ररूपणाद् हितकारिभ्यः । लोकेषु प्रदीपकेभ्यः । पुनः लोके चतुर्दशरज्जुप्रमाणे प्रद्योतकरेभ्यः। पुनः कथंभूतेभ्यः ? अभयदायकेभ्यः-सप्तभयनिवारकेभ्यः, सप्त भयानि इमानि-इहलोकभयम् , परलोकभयम्, आदानभयम् , अकस्माभयम् , आजीविकाभयम् , मरणभयम् , अपकीर्तिभयम्, एतेषां सप्तभयानां निवारकेभ्यः । पुनः कथंभूतेभ्यः ? चक्षुर्दायकेभ्यः-तत्त्वरूपलोचनदायकेभ्यः । पुनः कथंभूतेभ्यः? जीवदयेभ्यः-जीवेषु दया विद्यते येपु ते जीवादयास्तेभ्यो जीवदयेभ्यः, अथवा सम्यक्त्वरूपजीवदायकेभ्यः । |॥३४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy