________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥३३॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
कमलवद् नयने विकसिते, तदा सहसात्कारेण उत्थितस्य सर्वाणि शरीरस्याऽभरणानि प्रचलितानि । तानि कानि आभरणानि ? वराणि प्रधानानि, कटकानि कङ्कणानि, तथा बाहुरक्षाभरणानि एतानि सर्वाणि उत्तालव-1 शात् प्रचलितानि, पुनर्मुकुट-कुण्डलेऽपि हसिते स्तः, पुनर्हाराः प्रलम्बमाना विराजन्ते उरसि, पुनमौक्तिकानां गुच्छकाः प्रलम्बमाना विराजन्ते, एतादृशानि आभरणानि घृतानि सन्ति । ससंभ्रमम् , सलेहं सिंहासनाद् उत्थितः, उत्थाय पादपीठे पादं ददाति, अवरोहति-उत्तरति, पादपीठाद् अवरुह्य वैडूर्या-ऽरिष्टाञ्जनादिरत्ननिर्मितां चतुरकारूकैः कृताम् इव पादुकां परिहाय, एकपटशाटकेन उत्तरासङ्गं कृत्वा, अञ्जलिं बद्धा, तीर्थकरसम्मुखं सप्ता-ऽष्टपदं गत्वा, वामजानुं वक्रीकृत्य, दक्षिणजानुं धरित्री स्थापयित्वा, खमस्तकं नामयित्वा सर्वा-ऽऽभरणैः स्तम्भितं भुजद्वयम् अञ्जलिवशात् संमील्य, ऊवीकृत्य इमां सत्यार्थी स्तुति मुखेन अवादीत् ॥१४॥ नमोत्थु णं अरिहंताणं भगवताणं ॥ १॥ आइगराणं, तित्थगराणं, सयंसंबुद्धाणं ॥२॥ पुरिसोत्तमाणं, पुरिससीहाणं, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं ॥३॥ लोंगुत्तमाणं, लोगनाहाणं, लोगहियाणं, लोगपईवाणं लोगपजोयगराणं ॥ ४ ॥ अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, जीवदयाणं, बोहिदयाणं ॥५॥ धम्मदयाणं, धम्मदेसयाणं, धम्म
For Private and Personal Use Only