________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नोहरे चित्तवत् चञ्चले कुण्डले कर्णयोर्धारयति, ताभ्यां कृत्वा गण्डस्थले स्पृष्टे वर्तते । महर्षिकः, महाद्युतिः, || महाबलः, महायशाः, महासुखः, भासुरा देदीप्यमाना बोंदी कान्तिर्यस्य विद्यते । प्रलम्बमाना पञ्चवर्णपुष्प-IN माला गले धृताऽस्ति । सौधर्मनाग्नि देवलोके सौधर्माख्यायां सभायां शक्रनानि सिंहासने स्थितः, तत्र सौधर्मदेवलोके चतुरशीतिसहस्रदेवा इन्द्रस्य सेवां कुर्वन्ति, ते च इन्द्रस्य सामानिका देवाः सन्ति, यादृशी इन्द्रऋद्धिः, तादृशी एव तेषाम् ऋद्धिवर्तते, ते देवाः इन्द्रसामानिका उच्यन्ते । ब्रायस्त्रिंशदेवा । इन्द्रस्य पुरोहितस्थानीयाः सन्ति । चत्वारो लोकपालाः सन्ति । ते च लोकपाला इमे-सोमः, यमः, वरुणः, कुबेरश्च । अष्टौ अग्रमहिष्यः-पद्मा, शिवा, शची, अजू, अमला, अप्सराः, नवमिका, रोहिणी, एता अष्टौ अग्रमहिष्यो वर्तन्ते । एकस्या अग्रमहिष्याः षोडशसहस्रदेवाः सेवकाः सन्ति, सर्वेऽपि एकत्र मीलिताः सन्तो देवा एकलक्षा-18 ष्टाविंशतिसहस्रममाणा जाताः । तिस्रः पर्षदः-बाह्यपर्षत् , मध्यपर्षत् , अभ्यन्तरपर्षच । सप्त इन्द्रस्य कटकानि सन्ति, तानि इमानिः-हस्ती, अश्वः, रथः, पदातिः, वृषभा, नर्तकः, गन्धर्वश्च एतानि सप्त अनीकानि सन्ति । सप्त अनीकानां स्वामिनः सन्ति । चतुरशीतिसहस्रदेवा एकस्याम् एकस्यां दिशि सावधानाः, सायुधाः सेवां कुर्वन्ति । यदा चतुर्गुणाः क्रियन्ते तदा त्रिलक्ष-षत्रिंशत्सहस्रप्रमाणा भवन्ति । एतावन्तो देवा नित्यं सेवाम् | इन्द्रस्य कुर्वन्ति । अन्येऽपि सौधर्मदेवलोकस्य वासिनो देवाः, देवाङ्गनाश्च वर्तन्ते । तेषां सर्वेषां रक्षां करोति,
For Private and Personal Use Only