SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥३१॥ कल्पद्रुम कलिका वृत्तियुक. व्याख्या. रूपं ज्ञातम् , गृहीत्वा उपरि आरुरोह । तदा तेन रुष्टेन मस्तकद्वयं चक्रे । इन्द्रेणाऽपि रूपद्वयं कृतम् । यावन्ति मस्तकानि हस्तिना कृतानि, तावन्ति रूपाणि इन्द्रेणाऽपि कृतानि । तदा इन्द्रेणोक्तम्-रे चराक ! खकृतकर्मभ्यः कोऽपि न मुच्यते, किमर्थं खेदं करोषि, खकृतकर्मणां फलं भुङ्ग । त्वया मम हस्तपरिवेषणेन क्षीरान्नादिकं भुक्तम् , तद् न स्मरसि।यदा इन्द्रेण इति उपदेशो दत्ता, तदा स हस्ती अपि क्रोधं त्यक्त्वा इन्द्रस्य वाहनं बभूव । कार्तिकश्रेष्ठिभवे अभिग्रहशतं कृतं, तेन इन्द्रस्य 'शतक्रतुः' नाम जातम् । पुनः इन्द्रः सहस्राक्षः कथ्यते, तत्वरूपं जिनशासने इति प्रोक्तम्-यथा इन्द्रस्य अमात्यानां पञ्चशती वर्तते, सर्वेषाम् अमात्यानां सहस्रलोचनानि भवन्ति, तेन सहस्राक्षः इन्द्रो भवति । अथवा लोके इति कथानकं वर्तते-गौतमऋषिपत्नी अहल्या, तया सह इन्द्र आसक्तोऽभूत् । गौतमेन ज्ञातः, तदा स शप्त:-'चेत् तव भगो वल्लभोऽस्ति, तदा भो इन्द्र ! त्वं सहस्रभगो भव' । यदा मत्रिवर्गौतमस्य विज्ञप्तिः कृता, तदा पुनरपि गौतमेन कृपां कृत्वा 'सहस्रलोचनो भव' इत्युक्तम् , कृतः सहस्रलोचन इति नाम इन्द्रस्य जातम् । 'मघवा' देवविशेषः सेवको वर्तते, तेन इन्द्रोऽपि 'मघवा' उच्यते । पुनः इन्द्रः पाकशासन उच्यते । पाकनामा दैत्या, तं शास्ति साधयति इति पाकशासनः दक्षिणार्धभरतस्य अधिपतिः, द्वात्रिंशल्लक्षविमानानामधिपतिः । ऐरावणो यस्य वाहनं वर्तते । देवानां मध्ये इन्द्र आल्हादकः । निर्मलवस्त्रधारकः । पुष्पमालायुक्तं मुकुटं मस्तके धारयति । नवीनवर्णेन घटिते अतीवम ॥३ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy