________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगरलोकः पृष्टः कोऽपि ममाऽन्तिके नायाति ? तदा नगरलोकैरुक्तम् भोः तपखिन् ! भवतां सेवायै एकः कार्तिकश्रेष्ठी नायाति । एवं श्रुत्वा स तापसः कार्तिकश्रेष्ठिन उपरि रुष्टः । अन्यदा तस्य नगरस्य नृपेण स तापसो भोजनाय निमन्त्रितः । तदा तापसो वदति स्म तव गृहे चेत् कार्तिकश्रेष्ठी समागत्य स्वहस्तपरिवेषणेन क्षीरान्नादिकं भोजयति, तदाऽहं पारणं करोमि । तदा राज्ञा श्रेष्ठिनं समाहूय प्रोक्तम्- भोः श्रेष्ठिन् ! त्वं गैरिकं पूर्वोक्तप्रकारेण भोजये:, तदा श्रेष्ठिना ज्ञातम्, यदा राज्ञः आज्ञां न करिष्यामि, तदा राजा मनसि दूनो भवि ध्यति, यस्य छत्रच्छायायां स्थीयते, यदि तस्य वचनं नाङ्गीक्रियते, तदा किं क्रियते इति विचार्य श्रेष्टिना राज्ञ आज्ञा स्वीकृता । अनुक्रमेण तापसो निमन्त्रितः, भोजनावसरे कार्तिकश्रेष्ठी खहस्तपरिवेषणेन तं भोजयति स्म तदाऽसौ - भोजनं कुर्वन् नक्रोपरि अङ्गुलिं प्रेरयति, मुखेन एवं वदति-यथा त्वं महान् धृष्टोऽभूः, तथा त्वं पराभवं सहख । श्रेष्ठिना ज्ञातं यदा पूर्वमेवाऽहं दीक्षाग्रहणमकरिष्यम्, तदा किमर्थमिदं मिथ्यादृष्टिकृतपराभवम् असहिष्यम्, एवं चिन्तयित्वा स्वगृहे आगत्य सहस्रपुरुषैः सह मुनिसुव्रतखामिपार्श्वे दीक्षां ललौ । द्वादशवर्षं यावत् चारित्रं प्रपाल्य अभिग्रहशतं गृहीत्वा प्रान्ते अनशनेन मृत्वा प्रथमदेवलोके इन्द्रो जातः । स गैरिकतापसोऽपि मृत्वा इन्द्रस्य ऐरावणनामा हस्ती जातः । हस्तिना ज्ञानं प्रयुक्तम् । स्वकीयं प्राग्भवं दृष्ट्वा मनसि चिन्तितम् - पूर्वभवे अहं तापसोऽभूवम्, अयं च कार्तिकश्रेष्ठी आसीत्, इति ज्ञात्वा नष्टः । इन्द्रेणाऽपि अवधिज्ञानात् तत्व
For Private and Personal Use Only