________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| उपवेदाः पुनश्चत्वारः-धनुर्वेदः, आयुर्वेदः, गान्धर्ववेदः, अध्यात्मवेदश्च । अष्टादशपुराणानां ज्ञाता भावी, IN तानि पुराणानि-ब्रह्मपुराणम् , अम्भोरुहपुराणम् , विष्णुपुराणम्, वायुपुराणम्, भागवतपुराणम्, नारदपुराणम् , मार्कण्डेयपुराणम् , अग्निदैवतपुराणम् , भविष्यत्पुराणम् , ब्रह्मविवर्तपुराणम् , लिङ्गपुराणम् , वराहपुराणम् ,
स्कन्दपुराणम्, वामनपुराणम् , मत्स्यपुराणम् , कूर्मपुराणम् , गरुडपुराणम् , ब्रह्माण्डपुराणम्, इति अष्टादश Lalपुराणानि । अष्टादश स्मृतयः-मानवीस्मृतिः, आत्रेयी, वैष्णवी, हारीती, याज्ञवल्की, औशनसी, आङ्गिरसी,
प्रयामी, आपस्तम्बी, सांवर्ती, कात्यायनी, बार्हस्पती, पाराशरी, साडी, दाक्षी, गौतमी, शान्तातपी, वासिष्ठी, एताः स्मृतयोऽष्टादश । एतेषां ग्रन्थानां धारको भविष्यति-पारगामी भविष्यति । तथा षडङ्गस्य वेत्ता भविध्यति । षष्टिः ६० तन्त्राणि यन्त्र सन्ति तत् षष्टितनं कापालिकयोगिनां शास्त्रं सायशास्त्रं वर्तते, तत्र विशारदो भविष्यति । संख्याशास्त्रस्य लीलावतीप्रमुखस्य शिक्षाशास्त्रस्य वेत्ता भविष्यति । शिक्षाकल्पस्य आचारग्रन्थस्य ज्ञाता भविष्यति । व्याकरणस्य वेत्ता-इन्द्र-चन्द्र-काशिकृत्स्न-आपिशली-शाकटायन-पाणिनिअमर-जैनेन्द्रा इत्यष्टौ व्याकरणानि, तेषां वेत्ता भविष्यति । छन्दःशास्त्रम् , निरुक्तम्, पदभञ्जनम्, तथा ज्योतिःशास्त्रं स वालो ज्ञास्यति । अयनम्-उत्तरायन, दक्षिणायनं ज्ञास्यति । तथा अन्येषु बहुषु ब्राह्मणानां नयेषु, परिव्राजकशास्त्रेषु सुपरिनिष्ठितः प्रवीणो भविष्यति । तेन कारणेन हे देवानुप्रिये ! त्वया सम्यक् स्वप्ना आरोग्य
For Private and Personal Use Only