________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारकाः, माङ्गल्यकारकाः देवानुप्रिये ! त्वया खमा दृष्टाः।इदं तेषां फलं शृणु-हे देवानुप्रिये! अर्थलामो भविष्यति. भोगलाभो भविष्यति, पुत्रलाभो भविष्यति, सौख्यलाभो भविष्यति, एवं खलु निश्चयेन नव मासाः संपूर्णाः अर्धाष्टमदिनसहिता भविष्यन्ति, तदा सुकुमालकर-चरणम् , अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरम् , लक्षण-व्यञ्जनगुणोपेतम् । “इह भवति सप्तरक्तः, षडुन्नतः पञ्चसूक्ष्मो दीर्घश्च । त्रिविपुल-लघु-गम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥१॥” स पुरुषः द्वात्रिंशल्लक्षणो भवति, यस्य नख-हस्त-पाद-जिह्वा-ओष्ठ-तालु-लोचनान्ताः सप्त रक्ताः । कक्षा-हिडकी-नासिका-नख-मुख-हृदयानि षड् उन्नतानि । दन्त-केश-अङ्गुलिपर्व-चर्म-नखा एते है पञ्च पत्तलाः । नयन-कुचान्तर-नासिका-इमथु-भुजाः पञ्च दीर्घाः । भाल-खर-बदनानि त्रीणि विस्तीर्णानि । जङ्घा-लिङ्ग-ग्रीवाः त्रीणि लघवः । खर-नाभि-धैर्याणि गम्भीराणि । इति ३२ लक्षणानि । तथा मानो-न्मानप्रमाणप्रतिपूर्णः-जलभृतकुण्डे प्रमातव्ये पुरुषे निवेशिते २५६ पलं जलं निस्सरति, स मानोपेतः । तुलायां तो |लितः अर्धभारं तुलति, स उन्मानोपेतः । यः १०८ अङ्गुलप्रमाणशरीरः स प्रमाणोपेतः । सुजातः, सर्वाङ्गमन्दरः, भाल-नासिका-श्मश्रु-ग्रीवा-हृदय-नाभि-गुह्य-मस्तक-जानु-जङ्घा-हस्त-पाद-मसा-तिलकानां स्थानकानि व्यञ्जनानि मसा-तिलकानि उच्यन्ते । तस्माल् लक्षणयुक्तम्, व्यञ्जनयुक्तम् , गुणः औदायें-धैर्य-गाम्भीर्यसहितम् , चन्द्रवत् सौम्याकारम् , कान्तम् , प्रियदर्शनम् , सुरूपं देवकुमारोपमं दारकं-पुत्रं जनयसि ॥८॥
For Private and Personal Use Only