________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वश्रूः घृते सत्यपि हट्टे गता इति विचिन्त्य तद् घृतं तप्तीकृत्य, तद्भाजनं तत्रैव मुक्त्वा स्थितः । साऽप्याऽऽगत्य हट्टे घृतं न लभ्यते इत्युवाच। तदा जामाता अवादीत् हे श्वश्रु ! यदि किश्चित् टङ्कषिन्दुमितं वा घृतभाजने घृतं भवेत्तदा पायसमध्ये भोक्तव्यम्, रूक्षस्य नाम निवार्यते । इत्युक्ते तयाऽपि हि स्त्यानी भूतघृतभ्रान्त्या तद्भाजनं घृतं मध्ये कास्तीति वदन्त्या जामातुः स्थालोपरि अधः कृतम् । घृतं सर्वं पतितं दृष्ट्वा जामाता पुत्रश्च एतौ उभौ अपि सहशैौ इति हेतोरावां एकत्र भोक्ष्यावः । अथाऽस्माकं ईदृशी इच्छाऽस्ति । जामात्रा तदोक्तम् अतीवसम्यक् । अथ श्वश्रूः एकत्र भुंजन्ती खस्यां दिशि घृतमानेतुमित्यवदत्-हे जामातः ! भवता अमुकदिने मत्पुत्री ताडिता, अमुकदिने तर्जिता, अमुकदिने रङ्गीनं कमखाख्यं वस्त्रं मार्गितं सन्नानीय दत्तं चीवरमपि नानीय दत्तम् । अतः परं भवता होलिकायां नागतम्, अक्षततृतीयायां नागतम्, रक्षाबन्धेऽपि नागतम् एवमुक्त्वा २ हस्ताङ्गुल्या क्षीरान्तराले रेखां कुर्वन्ती खस्यां दिशि घृतं जहार । तादृशीं तां दृष्ट्वा धूर्त्तेति विज्ञाय जामाताऽपि धूर्त्तीभूय हे श्वश्रूः अतः प्रथमं यत्कृतं तन्न स्मरणीयम्, अग्र पश्चादलीयागलीया वर्त्तते एवं कृत्वा हस्तेन क्षैरीयी घृतेनैकत्रीकृत्य, जामाता उवाच - यदि मद्वचने प्रतीतिस्तव नास्ति तर्हि तव प्रत्यक्षं कौशं पिबामीत्युक्त्वा क्षैरेयीं सर्वा पपी । इति लौकि कदृष्टान्ते यथा श्वश्रू - जामात्रोर्विवादे घृत-क्षेरेप्योः परस्परं मेलापो जातस्तथा धर्मे मेलापो विधेयः । इति विचार्य पर्युषणापर्वणि विशेषेण कषायास्त्याज्याः ॥ पुनः- “गंगाए नाविओ नंदो १, सभाए घरकोइलो २ । हंसो
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं. व्याख्या.
९
॥२८४॥