SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir जायचोपाश्रये नित्यं तिष्ठन्ति स उपाश्रयः प्रतिलेखितव्यः-प्रभाते, मिक्षासमये, मध्याहे, तृतीयप्रहरे चैवं वार चतुष्टये वर्षाकाले प्रमार्जनीयः । शीतोष्णकाले मध्याप्रमार्जनं विना वारत्रयं प्रमार्जनं कर्त्तव्यम् । अयं विधिर्निीचोपाश्रये, जीवाकुलोपाश्रये तु पुनः पुनः प्रमार्जनं विधेयम् । अन्यौ द्वौ उपाश्रयौ प्रतिदिनं दृष्ट्या प्रतिलेखनीयौ, तृतीये दिवसे दण्डपुछनेन प्रमार्जनीयौ । एषा पञ्चविंशतितमी समाचारी ॥ २५ ॥ अथ भक्त-पानार्थगमनकाले दिग-विदिग्दर्शनरूपा षड्विंशतितमी समाचारी कथ्यतेका वासावासं पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा कप्पइ अण्णयरिं दिसिं वा, अणुदि सिं वा, अवगिज्झिय अवगिज्झिय भत्त-पाणं गवेसित्तए। से किमाहु भंते ! ओसण्णं समणा __ भगवंतो वासासु तवसंपउत्ता भवंति, तवस्सी दुब्बले, किलंते मुच्छिज्ज वा, पवडिज्ज वा, __तामेव दिसिं वा, अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ १ ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनामन्यतमस्यां कस्यां दिशि, अथवा व्यवहारमार्गेण विदिक्षु वा अवगृह्य गुर्वादीनां तां दिशमुक्त्वा भक्त-पानाद्यर्थं गन्तुं कल्पते, यस्यां दिशि गच्छेत् तस्याः दिशो नाम मुनीनामग्रे वक्तव्यमित्यर्थः । अत्र को हेतुः ? तदाह-येन हेतुना 'ओसन्न' प्रायेण वर्षाकालसमये श्रमणा भगव For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy