________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२७॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
५ एतल्लयनसूक्ष्मं छद्मस्थसाधु-साध्वीभिर्वारं २ ज्ञातव्यं द्रष्टव्यम्, प्रतिलेख्यं तल्लयनसूक्ष्मम् ॥७॥ पुन:शिष्यः-पृच्छति-हे खामिन् ! किं तत् लेहसूक्ष्मम् ? गुरुर्वदति-हे शिष्य ! लेहसूक्ष्मं पञ्चप्रकारकम् , तद्यथा कथ्यते 'उस्सं-यो रात्री अवश्यम् आकाशात् पतति स च अवश्यायः प्रथमम् उसं-स्नेहसूक्ष्मं १ द्वितीयं 'हिम' यत् खन्धार'-आदी देशे 'बरफ' इति-प्रसिद्धम् २। तृतीयं महिका-धूमरी ३ । चतुर्थ करकाख्यम् आकाशाजलस्य करकाणां वृष्टिः४ । पञ्चमं स्नेहसूक्ष्मं हरिततृणकाख्यम्, यच्छीतकाले भूमिमध्यात् तृणाङ्कराग्रेषु आयाति तत् पञ्चमं हरिततृणकाख्यम्, एतत् सर्व स्नेहपञ्चकं सूक्ष्मम् ५ । छद्मस्थसाधु-साध्वीभिर्वारं वारं ज्ञा-1 तव्यं द्रष्टव्यम् , प्रतिलेख्यं तत् स्नेहसूक्ष्मं । एवमिमान्यष्टोऽपि सूक्ष्माणि वर्षाकाले यत्नेन पालनीयानि रक्षणीयानि ॥ ८॥ एषा षोडशमी समाचारी ॥१६॥ अथ गुरुं पृष्ट्वा विहरण-विकृतिग्रहण-चिकित्सा-संलेखनाधर्मजागरिकादिकर्तव्यरूपां सप्तदशमीं वदतिवासावासं पजोसविए भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा नो से कप्पइ अणापुच्छित्ता आयरियं वा, उवज्झायं वा, थेरं वा, पवित्तिं वा, गणिं, गणहरं, गणावच्छेअयं जं वा पुरो काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं
॥२७॥
For Private and Personal Use Only