________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रक्तम्, पीतम् , शुक्लं वृक्षसदृशं सूक्ष्मपुष्पं भवति, उम्बर-चटप्रमुखाणां पुष्पाणि सूक्ष्माणि उक्तानि । यानि छद्मस्थसाधु-साध्वीभिरभीक्ष्णम्-वारंवारं ज्ञातव्यानि, विलोकनीयानि-प्रतिलेख्यानि, एवं पुष्पसूक्ष्म ज्ञेयम् ॥५॥ पुनः-शिष्यः पृच्छति-स्वामिन् ! किं तद् अण्डसूक्ष्मं ? गुरुराह-हे शिष्य! अण्डसूक्ष्मं पञ्चप्रकारम्-'उईसंडे'-मधुमक्षिकाणां अण्डम् , अथवा मत्कुणानाम् अण्डम् १ । उत्कलिकाण्डं कोलिकालूतापुताण्डम् २ । पिपीलिकाण्डम् ३। हलिकाण्डं-गिरोलिका-ब्राह्मणीप्रमुखाणामण्डम् ४ । 'हल्लोलियंडे'-काकीडाजीवानामण्डम् ५
एतत् पश्चाऽण्डसूक्ष्म छद्मस्थसाधु-साध्वीभिारं वारं ज्ञातव्यं दृश्यम्, प्रतिलेख्यं एतत् पञ्च सूक्ष्माऽण्डं ज्ञेयम् M॥६॥ पुनः-शिष्यः पृच्छति-हे गुरो ! किं तद् लयनसूक्ष्मम् ? गुरुराह-हे शिष्य ! लयनं जीवानां स्थितिस्थान
गृहमित्यर्थः, तद्गहसूक्ष्म पश्चप्रकारकम् , तद्यथा वर्त्तते तथा त्वं शृणु, 'उत्तिङ्गलयनम्'-भूमिमध्ये वर्जुलाकारं || | गृहं भवति, तस्मिन् मध्ये गईभाकाराः ससुण्ढाः जीवास्तिष्ठति । यस्मिन् रन्ध्र पतिताः कीटिका निःसरितुं न शक्नुवन्ति । तान् जीवान् लोकरूया वाला हस्तिनो चन्ति इति प्रथममुत्तिङ्गलयनम् १। द्वितीयं 'भृगुल-IN यनं' यत्पिच्छलायां भूमौ जले शुष्के सति भूमेरुपरि पर्पटिका भवेत् तस्याऽधो जीवास्तिष्ठन्ति तद्भुगुलयनम्
। तृतीयम् 'उद्युतं' सर्प-मूषिकादीनां गृहं बिलम् । चतुर्थ 'तालमूलं' तालवृक्षस्य मूलसदृशम् उपरि संकीर्णम् अधः पृथुलं जीवविशेषाणां गृहं भवति तत् तालमूलम् ४ । पञ्चमं 'शंबूकावत' भ्रमर-भ्रमरीणां गृहम्
For Private and Personal Use Only