________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ज्ञातव्यम् शपुनः शिष्यः पृच्छति-हे गुरो! पनकसूक्ष्म कीदृशं? गुरुर्वदति-हे शिष्य ! पनकसूक्ष्म पञ्चप्रकारक कथितम्-कृष्णम् १, नीलम् २, रक्तम् ३, पीतम् ४, शुक्लं ५, च वर्णजातिविशिष्टं ज्ञेयम् । पनकसूक्ष्मं प्रायेण ला मेघसमये भूमेरुपरि, काष्ठस्योपरि, वस्त्रादेरुपरि, मृत्तिकाभाजनोपरि भवति, यादृशं द्रव्यं भवति तस्य द्रव्यस्योपरि तादृशेनैव वर्णेन पनकं भवति, तत् पनकसूक्ष्म छद्मस्थसाधुभिः, साध्वीभिश्च वारं २ विलोकनीयम्-प्रतिलेखनीयम् । हे शिष्य ! तत् पनकसूक्ष्मम् एतादृशं ज्ञेयम् २॥ पुन: शिष्यः पृच्छति-हे गुरो! किं तद् वीजसूक्ष्मं - गुरुर्वक्ति-कृष्णम् , नीलम् , रक्तम् , पीतम् , शुक्लं धान्यस्य कणिकासदृशम् ,या धान्यस्य मुखे भवति धान्यस्य ।। सा कणिका उच्यते, तत्सदृशं बीजं पञ्चवर्ण सूक्ष्मं भवति । तद्वीजसूक्ष्ममपि छद्मस्थसाधुभिः, साध्वीभिश्च वारं वारं ज्ञातव्यम् , विलोकनीयम्-प्रतिलेख्यमिति बीजसूक्ष्मम् ३॥ पुनः शिष्यः पृच्छति-खामिन् ! किंतद् हरितसूक्ष्मम् ? गुरुर्वदति-हे शिष्य ! हरितसूक्ष्म पश्चप्रकारम्-कृष्णम्, नीलम् , रक्तम्, पीतम् , शुक्लं यद् हरितसूक्ष्मम् उद्गच्छन् पृथ्वीसमानवणे भवति, तत् त्वरितं विनश्यति सूक्ष्माकुरमात्रत्वात् तच्छद्मस्थसाधु-साध्वीभिवारं २ ज्ञातव्यम् , विलोकनीयं प्रतिलेखनीयम् , एतादृशं हरितसूक्ष्मं ज्ञेयम् ॥ ४॥
से किं तं पुप्फसुहमे ? पुष्फसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे, जाव-सुकिल्ले । अस्थि
For Private and Personal Use Only