SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शय्यापालकस्य कर्णे तप्तकस्तीरकं (पु) क्षिप्तम् । मृत्वा स नरकं गतः। ततो वासुदेवः चतुरशीतिलक्षायुः प्रपाल्य च्युतः। इति एकोनविंशो भवः । विंशतितमे भवे सप्तमनरकायुः पालितम् । ततो निःसृत्य एकविंशतितमे भवे सिंहो जातः । ततो मृत्वा द्वाविंशतितमे भवे चतुर्थनरके उत्पन्नः । नरकाद् निःसृत्य तिर्यग्मनुष्यसंबन्धिनो बहन सूक्ष्मान् भवान कृत्वा ततः पश्चिममहाविदेहे मूकानगर्या धनंजयो राजा, तस्य धारिणी राज्ञी, तस्याः कुक्षौ त्रयोविंशतितमे भवे समुत्पन्नो मरीचिजीवः । चतुर्दश स्वप्ना जनन्या दृष्टाः । अनुक्रमेण पुत्रो जातः । प्रियमित्र इति नाम दत्तम् । यदा यौवनावस्थां प्राप्तः, तदा चक्रवर्तिभवे त्रुटिताङ्गमायुः पालितम् । तस्य आयुषो मानं कथ्यते-एकोनषष्टिलक्षकोटाकोटिः, सप्तविंशतिसहस्रकोटाकोटिश्च, चत्वारिंशत्कोटाकोटिश्च वर्षाणां यदा भवति, तदा त्रुटिताङ्गायुर्भवति-चतुरशीतिपूर्वलक्षैः एकं त्रुटिताङ्गायुर्भवति । अन्त्ये वयसि च चक्रवर्ती दीक्षां लात्वा कोटिवर्ष चारित्रं प्रपाल्य समाधिना मृत्वा सप्तमदेवलोके सप्तदशसागरायुषो देवश्चतुर्विशतितमे भवे समुत्पन्नः । ततश्च्युत्वा अत्रैव जम्बूद्वीपे भरतक्षेत्रे छत्रापापुर्या पञ्चविंशतितमे भवे नन्दननामा राजा बभूव । चतुर्विशतिलक्षवर्षं गृहे स्थितः । ततो गुरूणां पोहिलाचार्याणां समीपे दीक्षा जग्राह । एकलक्षवर्ष यावद् मासक्षपणपारणकं तपश्चक्रे । ततः विंशतिं स्थानानि सेवयित्वा तीर्थकरनामकर्म उपार्जयामास । तत|श्चारित्रं प्रपाल्य कालं कृत्वा दशमदेवलोके पुष्पोत्तरप्रवरपुण्डरीकविमाने विंशतिसागरोपमायुषा षड्विंशतितमे क.स.५ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy