SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. योद्धव्यम् । ता-जीर्णवस्त्रवत् सिहो विन पातितः, पर कल्पमत्रवर्षे अश्वग्रीवप्रतिवासुदेवराजेन्द्रःखकीयसेवकान् रक्षार्थं प्रेषयति । अन्यदा प्रजापते राज्ञो वारकं समागतम् ।। तदा त्रिपृष्ठोऽचलेन बान्धवेन सह जनकस्य आज्ञया तत्रागतः, यत्र गुहायां सिंहस्तिष्ठति, तत्र रथे स्थित्वा, IN ॥२४॥ शस्त्राणि धृत्वा, कवचं परिधाय समाजगाम । तदा सिंहो रथशब्दं श्रुत्वा उत्थितः, सिंहं दृष्ट्वा त्रिपृष्ठश्चिन्तया-| मास-अयं रथारूढो न, शस्त्राणि न धत्ते, देहे चास्य कवचं नास्ति; मयाऽपि रथं त्यक्त्वा शस्त्राणि मुक्त्वा, कवचम् उत्तार्य अनेन सह योद्धव्यम् । इति कृत्वा सिंहम्-अभिलाप्य मुखस्य ओष्ठसंपुटं विदार्य स्फाटितः-जीर्णवस्त्रवत् सिंहो विनाशितः । भूमौ पातितः, परं सिंहस्य जीवः शरीराद् न निस्सरति । तदा सारथिना उक्तम्-अहो सिंह ! यथा त्वं मृगराजोऽसि, तथा अयमपि तव हन्ताऽपि नरराजोऽस्ति । येन तेन नरेण त्वं न व्यापादितोऽसि इति श्रुत्वा, सिंहो मृत्वा नरकं ययौ । अन्यदा अश्वग्रीवप्रतिवासुदेवं त्रिपृष्ठो नृपो जघान । वासुदेवपदवी त्रिपृष्ठस्य समागता । अथैकदा त्रिपृष्ठः सुप्तोऽस्ति, परदेशादागता गायका गीतगानं कुर्वन्ति । तदा च स्वशय्यापालकस्य वासुदेवेनोक्तम्-यदाऽस्माकं निद्रा समेति, तदा इमे गायकास्त्वया स्वस्थाने प्रेषितव्या इति । वासुदेवो यदा सुप्तस्तदा च शय्यापालकेन तेषां गीतश्रवणलुब्धेन तेन गायका न प्रेषिताः। क्षणेन वासुदेवो जजागार, रुष्टः शय्यापालकमवादीत्-किमरे! एते गायका न प्रेषिताः? शय्यापालकेन उक्तम्खामिन् ! एते गायकाः सरसं कर्णसुखदं गानं चक्रुः । तेन मया न विसर्जिताः, इति श्रुत्वा रुष्टेन वासुदेवेन राजोऽसि, तथा अयमाप तब हन्ताऽपि अश्वग्रीवप्रतिवासुदेवं । तिवासुदेवं । For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy