SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवान्तरे अहं तव हन्ता स्यामिति निदानं चकार । ततश्च कोटिवर्षं यावत् चारित्रं प्रपाल्य अन्त्यसमये अनशनं कृत्वा अष्टादशमे भवे देवो बभूव । अथास्मिन् अवसरे पोतनपुरे प्रजापतिर्नृपः, तस्य धारिणी राज्ञी, तस्याः कुक्षिसंभवः चतुःखमसूचितः एकोऽचलनामा राजपुत्रोस्ति एका मृगावतीनाम्नी कन्या अस्ति । एकदा च धारिण्या स्नानं कारयित्वा षोडशशृङ्गारान् अङ्गे धारयित्वा पितुः पार्श्वे विवाहचिन्तार्थं मृगावती कन्या प्रेषिता, सभामध्यस्थेन राज्ञा विलोकिता, राजा तां पुत्रीं दृष्ट्वा कामपीडितोऽभूत्, तां परिणेतुं वाञ्छति स्म । लोकापवादनिवारणार्थं सभालोकानां पुरत इत्युवाच भोः सभालोकाः ! यूयं कथयत, लोके यदू रत्नं वस्तु भवति तत् कस्य ? तदा लोका ऊचुः- यानि उत्तमरत्नवस्तूनि तानि सर्वाणि राज्ञ एव, रत्नवस्तूनामन्यः को योग्यः ? । यदा लोकैरित्युक्तम्, तदा नृपेण सा पुत्री परिणीता, यतः इयं कन्या रत्नं अपरस्मै कस्मै दीयते ? मया एव गृह्यते । अनुक्रमेण प्रजापतिनृपस्तया सह विषयसुखं भुङ्क्ते । एकदा च स विश्वभूतिजीवो देवभवात् च्युत्वा मृगावत्याः कुक्षौ अवततार । मृगावत्या सप्त खप्मा दृष्टाः, संपूर्णमासे सुतो जातः, राज्ञा महान् महोत्सवः कृतः । दशदिनानन्तरं बालस्य त्रिपृष्ट इति नाम दत्तम् । अनुक्रमेण त्रिपृष्ठो वृद्धिं प्राप्तः । अस्मिन् अवसरे शङ्खपुरनगरसमीपे तुङ्गीयापर्वतः, तत्र गुहायां विशाखनन्दी जीवः सिंहत्वेन उत्पन्नोऽस्ति, तत्र पर्वतस्य पार्श्वे अश्वग्रीवप्रतिवासुदेवस्य शालिक्षेत्रमस्ति अत्र क्षेत्रे यो मनुष्यो रक्षार्थं तिष्ठति तं सिंहो विनाशयति । एवं वर्षे For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy