SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. कल्पमूत्रं IN कुमार ! वाटिकामन्दिरेषु वस्त्रीभिर्विशाखनन्दी क्रीडति, त्वया न गन्तव्यम् , महाराजेन खपुत्राय वाटिका समर्पिता, तदा विश्वभूतिना मनसि चिन्तितम्-अहो ! राज्ञा कपटं कृत्वाऽहं निष्कासितः, वाटिकायां वपुत्रश्च ॥२३॥ स्थापितः। धिक संसारमसारम् , सर्वोऽपि लोको मोहग्रस्तोऽस्ति, धिक् पापकरणं मोहम्, इति ज्ञात्वा विरक्तो भूत्वा खबलदर्शनार्थ वाटिकाया द्वारे कपित्थवृक्षस्य मुष्टिप्रहारेण कपित्थफलानि सर्वाणि भूमौ पातयामास, मुखेन इति कथयामास च यावती वेला मम कपित्थफलनिपातने लग्ना तावत्येव वेला शत्रूणां शिरःपातने लगति। परं लोकापवादाद् बिभेमि, इत्युक्त्वा साधूनां समीपे गत्वा दीक्षां गृहीत्वा बहूनि दीर्घाणि तपांसि चकार । एकदा च विश्वभूतिर्विहारं कुर्वन् मथुरायां समागतः । तदा च मासक्षपणपारणार्थं गल्लिकायामागच्छन् नवप्रसूतया धेन्वा पातितो विश्वभूतिः साधुः स्वमृगृहसमागतेन गवाक्षस्थेन विशाखनन्दिना दृष्टः । हास्यं कृतम्'अहो विश्वभूते ! तत् तव बलं क गतम् , येन बलेन मुष्टिप्रहारेण सर्वाणि कपित्थफलानि भूमौ पातितानि इति वचः श्रुत्वा, उच्चैदृष्ट्वा विशाखनन्दिनमुपलक्ष्य च विश्वभूतिसाधोमनसि अहंकारः समागतः-अद्यापि असौ मां हसति, असौ वराको मनसि गर्व विधत्ते, अयं जानाति-अस्य बलं गतं वर्तते, अयं भिक्षुर्जातः, अस्ति मम बलम् , न जानाति, तेन बलं दर्शयामि इति ध्यात्वा तामेव गां शृङ्गेण गृहीत्वा, शिरसि भ्रमयित्वा भूमौ मुमोच । विशाखनन्दिनमित्युवाच-मम बलं कुत्रापि न गतमस्ति, यदि मम तपसः फलं विद्यते, तदा ॥ २ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy