________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
यौवनं प्राप्तः, पित्रा परिणायितः । स च विश्वभूतिः स्वनारीभिः सार्ध राजवाटिकायां क्रीडां करोति । एकदा चित्रनन्दिनाम्ना नृपस्य पुत्रेण विशाखनन्दी क्रीडन् दृष्टः । मनसि चिन्तितम्-अहो ! धिग माम्, अहं नृपस्य पुत्रोऽस्मि, अयं तु युवराजपुत्रः, राजवाटिकायां कदापि मया क्रीडा कर्तुं न शक्यते, अनेन राजवाटिका नित्यं| रुद्धा । अथ तदा मम जीवितं सफलम् , यदि खकीयनारीभिः सह अस्यां वाटिकायां विश्वभूतिरिव अहं क्रीडां| करोमि । इति विचिन्त्य पितुः पार्थे गत्वा विज्ञप्तिः कृता । विश्वभूतिः अतः स्थानाद् निष्कासनीयः, यथाऽस्यां| वाटिकायां अहं क्रीडामि । तदा पित्रोक्तम्-पुत्र ! कश्चित् प्रपञ्चं कृत्वा विश्वभूतिं निष्कास्य त्वां प्रति दास्यामि, इत्युक्त्वा पुत्रं तोषयामास । तदा राज्ञा विश्वभूतिनिष्कासनार्थ प्रयाणभेरी दापयांचक्रे । लोकेषु इति उद्घोषणां च कारयामास । सिंहनाम्नो राज्ञ उपरि राजा प्रयाति, इति वार्ता जनमुखाद् विश्वभूतिः श्रुत्वा राज्ञोऽग्रे समागत्य अवादीत्-स तु सिंहो वराकः, तस्योपरि भवतां किं प्रयाणकरणम् ? तस्योपरि तु अहमेव यास्यामि, तं| बद्धवा आनयामि इत्युक्त्वा विश्वभूतिर्बलं लात्वा निर्गतः। तदा च राज्ञा विश्वभूतेः अन्तःपुरं वाटिकातो निकास्य वपुत्रस्य अन्तःपुरं स्थापितम् । सोऽपि सुखेन खस्त्रीभिः सह वाटिकायां चिक्रीड । विश्वभूतिरपि कतिभिश्चिद् दिनैः सिंहं जित्वा, बद्धा राज्ञे समर्पयामास । तदा विश्वभूतेमहद् यशोऽभूत् । ततश्च विश्वभूतिः खदारान् लात्वा क्रीडार्थ वाटिकायां जगाम । तत्र च वाटिकाया द्वारे विशाखनन्दिनो भृत्यैर्निषिद्धः-भोः
For Private and Personal Use Only