SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ २२ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir त्वयि किञ्चिदू धर्मो विद्यते न वा । तदा मरीचिना ज्ञातम् अयं मम योग्योऽस्ति तदा मरीचिः ब्रवीति स्म-मय्यपि धर्मो विद्यते, नास्ति कथम् ? दीक्षां गृहाण, दास्यामि तव दीक्षाम् इति स्वार्थाय उत्सूत्रं बभाषे । तेनोत्सूत्र वचनलेशेन कोटाकोटिसागरप्रमितं संसारे भवभ्रमणमुपार्जितम् । इति तृतीयो भवः । अथ मरीचिश्चतुरशीतिलक्षपूर्वमायुः प्रपात्य समाधिमरणेन मृत्वा पञ्चम देवलोके देवत्वेनोत्पन्नः । इति चतुर्थो भवः । अथ पञ्चमे भवे ब्राह्मणो बभूव । तापसीं दीक्षां लात्वा अज्ञानतपश्चक्रे । पञ्चमो भवः । ततः षष्ठे भवे देवो बभूव । ततश्युत्वा सप्तमे भवे पुनर्ब्राह्मणो बभूव, तापसीं दीक्षां लात्वा अष्टमे भवे देवो बभूव । ततश्युत्वा नवमे भवे पुनर्ब्राह्मणो जातः, तापसीं दीक्षां लात्वा दशमे भवे देवो बभूव । ततश्रयुत्वा पुनर्ब्राह्मणो भूत्वा तापसो जातः, दीक्षां लात्वा द्वादशमे भवे देवो बभूव । ततश्युत्वा त्रयोदशमे भवे ब्राह्मणो बभूव, तापसीं दीक्षां लात्वा देवो बभूव । चतुर्दशो भवः । ततश्युत्वा पञ्चदशमे भवे ब्राह्मणो भूत्वा तापसीं दीक्षां जग्राह । ततः षोडशे भवे देवो बभूव । ततो देवभवात् च्युत्वा कर्मवशाद् बहवः सूक्ष्मभवाः कृताः । अथ सप्तदशभवे राजगृहनगर्यां चित्रनन्दी नृपः, तस्य प्रियङ्गुर्नाम्नी राज्ञी । तस्य पुत्रो विशाखनन्दी वर्तते । नृपस्य लघुभ्राता विशाखभूतिरस्ति । स युवराजाऽस्ति । तस्य स्त्री धारणी विद्यते । तस्याः कुक्षौ मरीचिजीव आगत्य समुत्पन्नः । पूर्णे समये पुत्रो जातः, तस्य नाम विश्वभूतिरिति दत्तम् । क्रमात् स For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं • व्याख्या. १ ॥ २२ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy