________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मित्रो नाम चक्रवर्ती भावी । इमां वार्ता श्रुत्वा भरतो भगवतस्तस्य वन्दनस्य आज्ञां लात्वा प्रसन्नमना मरीचिं वन्दित्वेति अवादीत्-भो मरीचे ! त्वं भरतक्षेत्रे प्रथमो वासुदेवो भविष्यसि । ततो महाविदेहे प्रियमित्रो नाम चक्रवर्ती भविष्यसि । पुनरत्रैव भरतक्षेत्रे चतुर्विशतितमस्तीर्थकरो भविष्यसि । तस्मात् त्वां वन्दे, न तु चक्रवादिपदव्यर्थम् । 'यथा वर्तमानजिनो वन्दनीयः, तथा भावी जिनोऽपि वन्दनीयः, इत्युक्त्वा भरतः खगृह गतः। ततो मरीचिरिति वचनं श्रुत्वा प्रसन्नीभ्य अहंकारवाक्यं कथयामास-मम पिता चक्रवर्ती, मम पिता-| महस्तीर्थकरः, अहं च चक्रवर्ती भविष्यामि, वासुदेवोऽपि भविष्यामि, तीर्थकरोऽपि भविष्यामि । मम वासुदेवपदमधिकं समेष्यति, तस्माद् मम कुलमत्युत्तमम् । इत्युक्त्वा मुहुर्मुहुः खकीयभुजमास्फाल्य ननर्त, एवं कुलमदम्, गोत्रमदं कृत्वा नीचैर्गोत्रकर्म उपार्जितम् । अथैकदा मरीचिशरीरे व्याधिरुत्पन्नः, तदा साधुः क|श्चित् तस्य वैयावृत्यं न करोति । ततो मरीचिना ज्ञातम्-यदा मम शरीरे समाधानं भवति, तदा अहमेकं कंचित् शिष्यं करोमि, मम शरीरे रोगादिक्रान्ते सति सेवां करोति । अथ च कतिषु दिनेषु मरीचिः खस्थो जातः, तदैकः कपिलनामाराजपुत्रोमरीचिपाचे आगतः।मरीचिमुखाद् धर्मश्रुत्वा, कपिलः प्रतिबुद्धोऽवादीत्मह्यं दीक्षां देहि । तदा मरीचिरुवाच-ऋषभदेवपार्श्वे गत्वा दीक्षां गृहाण । तदा कपिलः ऋषभदेवं समवसरणस्य लीलाधारकं दृष्ट्वा आगत्य मरीचिं कथयामास-ऋषभदेवे धर्मः कोऽपि नास्ति, स तु राज्यलीलासुखं भुते।
चित् शिष्यं करोमि, मम शत्रो मरीचिपाचे आगतः । मागृहाण । तदा कपिलः ऋषमलीलामुखं भुङ्क्ते ।।
For Private and Personal Use Only