SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ २१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म। एकस्य तरोस्तले स्वयं स्थितः । तत्र सार्थाद् भ्रष्टाः साधवः केचित् समागताः, तान् दृष्ट्वा, संमुखं गत्वा, वन्दित्वा, स्वस्थाने समानीय, पूर्वकृताहारेण प्रतिलाभ्य तेभ्यो धर्म श्रुत्वा च खमार्गे प्रापितास्ते । तत्र साधूनां वन्दनादाऽहारदानाच्च नयसारेण सम्यक्त्वमुपार्जितम् । अयं प्रथमोभवः । ततः आयुःक्षये मृत्वा प्रथमदेवलोके देवो बभूव । इति द्वितीयो भवः । ततश्युत्वा ऋषभदेवस्य पुत्रो भरतचक्रवर्ती, तत्पुत्रो बभूव मरीचिरिति नाम्ना । एकदा ऋषभदेशनां श्रुत्वा दीक्षां जग्राह । तदाऽन्येऽपि भरतपुत्राः पञ्च शतानि सप्त शतानि पौत्राः तैरपि दीक्षा गृहीता । तदा मरीचिर्दीक्षां पालयितुमक्षमः, साधुवेषं त्यक्त्वा त्रिदण्डिवेषं जग्राह । पादे पादरक्षा धृता, मस्तकस्य मुण्डनं कारयति - लुञ्चनं कारयितुमसमर्थः, हस्ते जलकमण्डलुकं धारयति, गैरिकरक्तानि वस्त्राणि परिदधाति, समवसरणस्य बहिर्द्वारदेशे अनेन वेषेण तिष्ठति, ये जनास्तत्पार्श्वे धर्म शृण्वन्ति, तान् प्रतिबोध्य भगवतः पार्श्वे दीक्षां ग्राहयति । एकदा भरतः ऋषभदेवस्य वन्दनं कृत्वा समवसरणे इति प्रश्नं करोति स्म - स्वामिन्! अस्यामवसर्पिण्यां कति तीर्थंकरा भविष्यन्ति ? तदा खामिनोक्तम्- चतुर्विंशतिस्तीर्थंकरा भविष्यन्ति । पुनरपि पृष्टम् - खामिन् ! अस्मिन् समवसरणे कश्चित् तीर्थंकरजीवो विद्यते न वा ? स्वामिनोक्तम्- समवसरणवाह्यद्वारदेशे मरीचिस्तव पुत्रः त्रिदण्डिवेषेण तिष्ठति, स चतुर्विंशतितमस्तीर्थंकरो महावीरनामा भवि ष्यति । स एव पुराऽस्मिन् एव भरते क्षत्रे त्रिपृष्टनामा वासुदेवो भावी । पुनरपि महाविदेहे मूकानगर्यां प्रिय For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. १ ॥ २१ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy