________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
KI श्रमणो भगवान महावीरः चरमतीर्थकरः, प्रथमतीर्थकरेण श्रीआदीश्वरेण भरतस्य अग्रे कथितः। स भग-1
वान् ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालंधरसगोविण्याः पूर्वरात्रापररात्रकालसमये-मध्यरात्रिसमये उत्तराफाल्गुनीनक्षत्रेण सह चन्द्रयोगे उपागते सति, देवसंबन्धिनि आहारे व्यतिक्रान्ते, देवसंबन्धिनि भवे व्यतिक्रान्ते देवसंबन्धिनि शरीरे व्यतिक्रान्ते कुक्षौ गर्भत्वेन अवक्रान्तः-समुत्पन्नः । 'मरीचिस्तव पुत्रः, अन्त्यतीर्थकरो भविष्यति' इति आदीश्वरेण पुरा| उक्तम् । तत्कथार्थ श्रीमहावीरस्य सप्तविंशतिर्भवाः कथ्यन्ते
ग्रामेशस्त्रिर्दशो मरीचिरमरो षोढा परिबाट सुरः, संसारो बहु विश्वभूतिरैमरो नारायणो नारकः । सिंहो" नैरयिको भवेषु बहुशंश्चक्री सुरो नन्दनेः, श्रीपुष्पोत्तरनिर्जरोऽवतु भवाद् वीरस्त्रिलोकीगुरुः ॥१॥
अथ भवस्वरूपं कथ्यते-अस्मिन् जम्बूद्वीपे पश्चिममहाविदेहे प्रतिष्ठानपत्तने एको नयसारनामा नृपस्य भृत्यो ग्रामचिन्तकः कणवारकोऽभूत् । स चैकदा नृपाज्ञया शकटानि, बहून् भृत्यांश्च लात्वा काष्ठग्रहणार्थ वने जगा
१. आवश्यकनियुक्तिबृहद्वृत्तौ, लघुवृत्तौ; प्राकृतवीरचरित्रे तथा त्रिषष्टिशलाकापुरुषचरित्रान्तर्गते श्रीवीरचरित्रेऽपि चेत्यादिप्राचीनशास्वेषु प्रथममेव भववर्णनं कृतं तेन इहापि प्रथममेव भववर्णनं कृतमिति युक्तमेव ॥ २ तिरियमणुएसुत्ति पुनः कतिचिद् भवग्रहणानि| तिर्यग्मनुष्येषत्पद्य-इति आवश्यकबृहद्वृत्तौ ॥
For Private and Personal Use Only