SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥२०॥ कलिका वृत्तियुक्त. व्याख्या. ते मनुष्या एकान्तरे आमलकप्रमाणम्-आहारं गृह्णन्ति, ६४ पांशुल्यः, एकोनाऽशीतिदिनानि यावद् अपत्यपालनां करोति, पश्चाद् मृत्वा देवत्वेन उत्पद्यते । अथ चतुर्थम्-अरकं दुःषमसुषमानामकम् , तस्य मानम्-एककोटाकोटिसागरप्रमाणं द्विचत्वारिंशत्सहस्रवरूनम् , तत्रस्थानां मनुष्याणाम्-एकपूर्वकोटिवर्षमायुः, पञ्चशतधनुर्देहमानम् , नित्यं भोजनम् , मृत्वा चतुर्गतिषु उत्पद्यन्ते, कर्मक्षयाद् मुक्तिमपि यान्ति । अथ पञ्चमं दुष्षमानामकम्-अरकम् , तस्य मानम्-एकविंशतिवर्षसहस्रम् , सप्त हस्तं देहमानम् , शतवर्षमायुः, मृत्वा चतसृषु गतिषु उत्पद्यन्ते, मुक्तौ न यान्ति । अथ षष्ठं दुष्षमदुष्षमानामकम्-अरकम् , एकविंशतिसहस्रवर्षप्रमाणम् , तत्र नराणां षोडशवर्षमायुः, एकहस्तप्रमाणं शरीरम्, तत्रस्थानां नराणां क्रूराणि कर्माणि, न्यायमार्गस्याभावः, मृत्वा केवलं दुर्गतावेव यान्ति" । एवं षण्णामपि अरकाणां किञ्चित् स्वरूपमुक्तम् । समणे भगवं महावीरे चरमतित्थयरे, पुवतित्थयरनिद्दिढे, माहणकुंडगामे नयरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरस्सगोत्ताए पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागए णं, आहारवकंतीए, भववकंतीए, सरीरवकंतीए कुच्छिसि गब्भत्ताए वकंते ॥२॥ ॥२०॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy