SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्रैव जम्बूद्वीपनाम्नि द्वीपे, दक्षिणार्धभरतक्षेत्रे अस्मिन्नेव अवसर्पिणीकाले सुषमसुषमानानि प्रथमेऽरके संपूर्णे व्यतीते सति, द्वितीये सुषमानानि अरके संपूर्णे व्यतीते सति, तृतीये सुषमदुःषमानानि अरके संपूर्णे व्यतीते सति, दुःषमसुषमानाम्नि चतुर्थेऽरके द्विचत्वारिंशत्सहस्रवर्षोनएककोटाकोटिसागरप्रमाणे बहुनि व्यतिक्रान्ते, पञ्चसप्ततिवर्षे सार्धाष्टमासे शेषे सति, अन्यस्मिन् सकलेऽपि गते सति एकविंशतितीर्थकरेषु इक्ष्वाकुकुले समुत्पन्नेषु काश्यपगोत्रीयेषु, तथा तीर्थकरद्वितये-मुनिसुव्रतस्वामिनि, नेमिनाथस्वामिनि च हरिवंशकुले गौतमगोत्रे समुत्पन्ने सति, श्रीआदीश्वरादारभ्य श्रीपार्श्वनाथं यावत् त्रयोविंशतितीर्थकरेषु जातेषु सत्सु । अथ शास्त्रान्तराद् अरकाणां स्वरूपं लिख्यते-"प्रथमं सुषमसुषमानामकम्-अरकं चतुष्कोटाकोटिसागरप्रमाणम्, तत्र मनुष्याणाम् , तिरश्चां च त्रिपल्योपमायुः, यस्मिन् अरके त्रिक्रोशप्रमाणं शरीरम् , २५६ पांशुल्यः, चतुर्थे दिवसे आहारं गृह्णाति, कल्पवृक्षस्तुम्बरीप्रमाणम् आहारं ददाति, एकोनपञ्चाशदू दिनानि यावद् अपत्यपालनां करोति, पश्चात् स्वर्गे याति । अथ सुषमानामकं द्वितीयम्-अरकम् , तस्य त्रिकोटाकोटिसागरप्रमाणम्, तत्र नराणां पल्योपमद्वयमायुः, क्रोशद्वयं देहप्रमाणम् , तृतीये दिवसे बदरप्रमाणम्-आहारं गृह्णाति, चतुष्पष्टिदिनानि | यावद्-अपत्यपालनां करोति, १२८ पांशुल्यः, पश्चाद् देवलोके उत्पद्यते । अथ तृतीयं सुषमदुःषमानामकम्अरकम् , तस्य द्विकोटाकोटिसागरप्रमाणम्, तत्रस्थयुगलकानाम्-एकपल्योपममायुः, एकक्रोशप्रमाणं शरीरम् , For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy