________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
२६६॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या
मुत्कलद्वारं स्थानं वा स्यात् तत्र स्थातुं कल्पते। एवं श्राद्धस्य साध्व्या सह चतुर्भङ्गी ज्ञेया-(एकः श्राडः एकया साव्या ॥१॥ एकः श्राद्धो द्वाभ्यां साध्वीभ्याम् ॥ २॥ द्वौ श्राद्धौ एकया साव्या ॥३॥ द्वौ श्राद्धौ द्वाभ्यां साध्वीभ्याम् ॥ ४॥ एकत्र स्थातुंन कल्पते) एषा त्रयोदशमी समाचारी ॥१३॥ अथ अपृष्टार्थे विहरणनिषेध| रूपा चतुर्दशमी कथ्यते
वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा अपरिणए णं अपरिणयस्स अट्टाए असणं वा १, पाणं वा २, खाइमं वा ३, साइमं वा ४ जाव-पडिगाहित्तए ॥४०॥ से किमाहु भंते ? इच्छा परो अपरिपणए भुंजिज्जा, इच्छा परो न भुंजिजा ॥४१॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च वैयावृत्त्यकरण साधुना अपरिज्ञप्तेन-ग्लानादिना अदत्तादेशेन, अपरिज्ञप्तस्याऽपृष्टस्य ग्लानादेनिमित्तम् अशन-पान-खादिम-खादिमाद्याऽऽहारं प्रतिगृहीतुं गृहस्थगृहादाज्नेतुं न कल्पते, तत्र को हेतुः १ तदाह-शिष्यः पृच्छति हे खामिन् ! पृच्छां विना कथमाहारं ना- पनीयते ? गुरुराह-यदि ग्लान इच्छेत्तदा ग्लानो भुञ्जीत, यदि ग्लानो न इच्छेत्तदा न भुञ्जीत । पुनश्चेत् परो
ऽन्योरोचमानो लज्जया, दाक्षिण्येनाऽऽहारं भुञ्जीत तदा तच्छरीरे ग्लानिः, अजीर्ण वा स्यात् । यदि न भुञ्जीत
॥२६॥
For Private and Personal Use Only