________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वासावासं पजोसवियस्स निग्गंथस्स गाहावइकुलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय २ वुट्टिकाए निवइजा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा जाव. उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य अगारीए एगयओ एवं चउभंगी। अत्थि णं इत्थ केइ पंचमए थेरे वा, थेरिया वा अन्नेसिं वा संलोए सपडिदवारे, एवं कप्पड़ एगयओ चिहित्तए । एवं चेव निग्गंथीए अगारस्स य भाणियत्वं ॥३९॥
अर्थ:-वर्षाकाले स्थितस्य निर्ग्रन्थस्य आहारार्थ गृहस्थस्य गृहे गन्तुम् अनुप्रविष्टस्याऽन्तरा-मार्गे निगृह्य २ वृष्टौ निपतत्याम् आरामस्य तले वा, उपाश्रये वा, विकटगृहस्थाऽधोभागे वा; वृक्षस्य मूले वा स्थितस्य च तत्रैकस्य साधोरेकया गृहस्थिन्या सह एकत्र स्थातुं न कल्पते । एवं पूर्वोक्तया रीत्या चतुर्भङ्गी ज्ञेया-एकस्य साधोः एकया गृहस्थिन्या ॥१॥ एकस्य साधो भ्यां गृहस्थिनीभ्याम् ॥२॥ अथ द्वयोः साध्वोरेकया गृहस्थिन्या ॥३॥ पुनः द्वयोः साध्वोः द्वाभ्यां गृहस्थिनीभ्यामेकत्र स्थातुं न कल्पते ॥४॥ अत्रापि पञ्चमः कश्चिद् वृद्धः, वृद्धा वा काचिद् भवेत् तर्हि स्थातुं कल्पते; अथवा यत्र बहूनां लोकानां दृष्टिपातो भवेत् , बहुद्वारम्
For Private and Personal Use Only