________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देशं प्राणिना-हस्तेन हस्तमध्यस्थमाहारमाच्छाद्य वा, 'ण' शब्देन तद्भोज्यं उरसि वा-हृदयाने रक्षेत्, अथवा कक्षायां वा समाहृत्य-आनीय, आच्छायेषु-गृहस्थेनाच्छादितानि निलयानि-गृहाणि तत्राऽऽगन्तव्यम् । अथवा वृक्षमूले वा आगन्तव्यम् । अन्यत् किं भण्यते, यत्र तदाऽऽहारस्य, पानीयस्य रजोभिः-बिन्दुभिरुदकस्पर्शः सूक्ष्मप्रदेशैर्न स्पर्शो जायते तथा करणीयमित्यर्थः । अस्यैवार्थस्य निश्चयं वदति-वर्षाकाले स्थितानां साधूनां मध्ये यः करपात्री साधुस्तस्य यत्किश्चित् स्तोकमात्रमपि कणो लेशः, कस्य ? पानीयस्य, स्पर्शमात्रेणापि पतति सति, अर्थात्-सूक्ष्मतराभिरपि कर्णिकाभिर्मेघे वर्षति सति गृहस्थस्य गृहे. भक्त-पानीयार्थ निष्क्रमितुम्, प्रविशितुंन कल्पते ॥ एषा द्वादशमी समाचारी॥१२॥ अथ पतधारिणः स्थविरकल्पिकस्य आहारविधिरूपा त्रयोदशमी कथ्यतेवासावासं पज्जोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारियबुट्टिकायंसि गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा, कप्पइ से अप्पवुट्टिकायंसि संतरुत्तरंसि गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा (पं०११००)
For Private and Personal Use Only